पृष्ठम्:ब्रह्मसिद्धिः (मण्डनमिश्रः).djvu/५०३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

तकंकण्डः 169 'गौः युइकः' इत्यादिव्यवहारो वस्तुनिबन्धनों भवति ; तेन ‘व्यवहारे परोपाचौ' इति व्यावहारिकज्ञानानां यदययार्षत्वमुक्तं तदपि न भवति । तस्मात्साधुरयं पक्ष इत्यस्तु स एव । विरोधमाशङ्कयति-स्यादिति । विरोधमाह—एकमिति । एकं तद्विपरीतमनेकमित्यर्थः । प्रकारान्तरेण विरोधात् द्वयोरेकत्वस्य दुरवगमत्वमाह-अपि चेति । तत्परिहरति नेति । चत् प्रमाणेन प्रतीयते तदविरुद्धम्, यथा रसवति रूपम् ततोऽ न्यद्विरुद्धम्, यथोष्णे चैत्यम् । तस्माद्यद्यया प्रमाणेन प्रमीयते तत्तथैव युक्तम् । तत्र प्रमाणमनादृत्य चेद्विरोधोऽभिधीयते, ततो विरोधाविरोध व्यवस्था निंदंतुकैव स्यात् । तस्माबत् प्रमाणेन प्रमीयते तदविरुद्धम् ; प्रमीयते चैकं बात्मकम्; तथा अनुवृत्तिव्यावृत्तिरूपेण बुद्धिभेदात् द्यात्प कत्वम् , सामानाधिकरण्येन चावगमादेकत्वमित्यर्थः । तदेवमनेकान्तवादि मतमवतार्य दूषयति--तदिदमिति । हेतुमाह--यत इति । व्बात्मकवस्तु ज्ञानमप्रमाणम् , विप्रतिषिद्धर्यत्वात्, संशयज्ञानवदित्यर्थः । स्वरूपविप र्ययोऽत्र विप्रतिषेधःन सहानवस्थानम् । स चास्त्येकत्वानेकत्वयोरिति न हेत्वसिद्धिराशङ्कया । यदि त्वेकस्य इचारमकत्वज्ञानं विप्रतिविद्धार्थमपि प्रमाणं स्यात् , ततस्तुल्यत्वात् संशयज्ञानमपि प्रमाणं स्यात्; ततश्च संशथ्यमानोऽप्ययं द्वयात्मा स्यात; न त्वेतदिष्टमित्यभिप्रायेणाह- अन्यथेति । अत्र हेतुमाह-द्वयात्मेति । यथा 'गरयम्’ इति ज्ञान मनुवृत्तव्यावृत्ताकार तथा संशयज्ञानमपि स्थाणुपुरुषद्वायत्मकाकारम् : यया न तत्र सामान्यविशेषयोः सामानाधिकरण्यम् , तथा संशयेऽपि तदाकारयोः स्थाणुपुरुषयोः। अतो द्वात्मकवस्तुतुल्यत्वात् संशयविषयोऽपि द्वयात्मा स्यादित्यर्थः । अत्रातुल्यत्वमाशङ्कयति--अथेति । यथा सामान्यविशेषवत्यर्थं ‘गौश्चायं शाबलेयश्चायम्’ इति समुच्चयप्रतीतिःन तथा संशय इत्यर्थः। अत्रोत्तरमाह---मा भूदिति । पर आह--सोऽपीति । न खेकमेव वस्तु पक्षे स्थाणुः पक्षे पुरुष इत्युपपद्यते, तस्य व्यवस्थितैकरूपस्य स्वहेतुत उत्पत्तेः; तदुक्तम्-- न हि वस्तु विकल्प्यते ’ इति । सिद्धान्ती तु यदि वस्तुनो विकर्षोऽनुपपन्न इति नेष्यते, एकस्यापि तर्हि इयात्मता