पृष्ठम्:ब्रह्मसिद्धिः (मण्डनमिश्रः).djvu/४९९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

तर्ककाण्डः 165 घटः’ इयैकात्म्येन प्रतीतिः सर्वजनसेवेद्य । किंच विप्रतिपत्तेश्च साम। न्यविशेषयोर्भेदेन प्रतीतिः स्यात् ; ततः प्रतीतिसिद्धत्वात्तयोर्भेदे सांख्या न विप्रतिपद्येरन् ; विप्रतिपद्यते च; तस्मादितोऽपि तयोरैकात्म्येन प्रतीतिः । अपि च तयोर्भेदेन प्रतीतौ सामान्यप्रत्यक्षे सति विशेषप्रत्यक्षा भिमानो न स्यात् ; अपितु धूमद्दष्टाविवामावविनाभावात् परोक्षाभिमानः स्यात्; न चैवम्; अतोऽपि तयोरैकात्म्येन प्रतीतिः । सा च तयोः संबन्धे सत्यपि न स्यात; " किंतु दण्डिवद्विशेषणविशेष्यभावेन स्यादि त्युक्तम् । अत्र चोदयति-स्यादिति । यदि संयोगादैकात्म्यप्रतीतिं P ब्रूमः, तत् दण्डिवत् स्यात्; वयं तु समवायाङ्गम इत्यर्थः । तस्य को विशेष इत्यत्राह---स हीति । स हि भिन्नयोरपि वस्तुननैरन्तर्यरूपत्वा- तयोर्मेदं तिरोधायाभेदं बोधयतीत्यर्थः । तद्दषयति--तनेति । हेतुमाह समवायेऽपीति । समवायोऽपि संबन्धत्वाद्भिन्नयोर्भवातनैकस्य । यदि तु तयोर्भदो न भायात्, ततो भिन्नाश्रयत्वात्संबन्धोऽपि न भायात् । अतः समवायेऽपि संबन्धे तयोर्मेदेन भार्यम् , तेन समवायिनोः खरूपभेदस्य ताभ्यामनपायात् । तथाच नैकाम्येन बुद्धिर्युज्यते । अस्ति च सा । अतस्तद्विरुद्धः प्रख्याभेदः सामान्यविशेषवस्तुनोत्रेदं व्यवस्थापयितुं नाल मित्यर्थः । एवं प्रख्याभेदसामानाधिकरण्यप्रत्यययोगेंदमाश्रित्य पूर्वस्य परेण विरुद्धत्वमुक्तम् । यदा त्वेकैव प्रख्या दो वस्तुनी समानाधिकरणत्वेन बोधयति, तदाह-खयामिति । वयं वा व्याहतत्वात् प्रख्याभेदो न वस्तुभेदव्यवस्यायै भवति । व्याहतत्वे हेतुमाह-एवेति । सामान्येन प्रख्याभेदस्य सामानाधिकरण्येनोत्पत्तेरित्यर्थः । एतदुक्तं भवति--यद्यनुवृत्त व्यावृत्तप्रख्या घटे पटप्रख्येव वैयधिकरण्येन स्यात्, ततो न खये व्याहता स्यात् यदा तु सामान्यविशेष न भेदेन दर्शयति, तदा विरुद्धभेदाभेदोपदर्शित्वात् वयमेव व्याहतेति । अत्र चोदयति--नन्विति । अत्रोत्तरमाह-भेदेति । तस्यार्थः अथ सामान्यविशेषयोरस्यन्तभेदेऽपि भेदतिरोधानसामर्थं समवायस्याम्युये यते, एवं तर्हि एकस्यैवात्मनस्तत्सामथ्र्यं किं नाभ्युपेयते ? यतः समर्य- विशेषात् नानारूपेण तदवभासत इति । वृत्तिर्निगदव्याख्याता ।