162 वक्षसिद्धिव्याख्या प्येकगोत्वनिश्चयस्येष्टत्वात् ; तदुक्तम् -• निर्विकल्पक -” इत्यादि । न खत्राप्यनुसंधानमस्ति ; तद्धि दृष्टस्य कालभेदेन पुनर्दर्शने अवति ; गोमण्डले च व्यक्तीनां देशभेदेऽपि न कालभेदः । तस्मादत्राप्यभिन्नरूप संवित्तित एवाभेदाध्यवसायः । अपि च यद्यनुसंधानादेकत्वम् , ततो यथा माणिकं दृष्ट्वा मणिकान्तरे ऽनुसंधानं न तथा शरावं दृष्ट्वा तत्र मृजाति रपि न स्यात् । अथ मणिकमिव शरावमपि दृष्ट्या अस्त्येव मणिकान्तरेऽ- नुसंधानम् ; तु विशेषः-यन्मणिकयोर्मणिकावयवसामान्यानां अयं भूयस्वदुत्कटम् , मणिकशरावयोस्तु मृक्सामान्यमात्रानुगमादनुत्कटम् । अतोऽस्ति मृजातिरिति ; एवं तर्हि यथा मणिकशरावयोरनुकटमनुसंधानं ततश्च मृज्जातिसिद्धिः , तथैव सर्षेषं दृष्ट्वा मेरावापि सर्षपत्वरूपेणाननुसंघा नेऽपि सदूपेणानुत्कटमनुसंधानमस्ति ; अतः सज्जातिरपि सिद्ध । अतः सूक्तम्--‘मीयमानैकरूपेषु' इति । एतदेव परमतेनाक्षिप्य समाधत्ते-भेदेति । भिद्यते इति भेदो विशेषरूपं व्यावृतम् ; अभेदस्तद्विरुद्धमनुवृत्तं सामान्यरूपम् , तदुभयाव- भासिनी ‘सन्’ इति ‘घटः’ इति श्री विज्ञाने स्तः । 'सन्’ इति सर्व त्रानुवृत्तम् , ’घटः' इति च पटादिभ्यो व्यावृत्तम् । तथा ‘गौः शाबलेयः' इत्याद्यपि द्रष्टव्यम् । यदि तु द्वे विज्ञाने नेष्येते ततो द्विरूपो व्यवहारो न स्यात् । अस्ति चासौ; तथाहि--वत्सो मातर- मन्विच्छन् सामान्यबुध्द्या गोगणमभिधावति, विशेषबुद्या चे स्वमातरम् । अतस्ततोऽनुवृत्तव्यावृत्ताकारे हे ज्ञाने । ज्ञानाधीना चार्थव्यवस्था । अन्यथा ह्यभेदोऽपि तव न स्यात्; सोऽपि ज्ञानबलेनैव त्वयाभ्युपेयते । तस्माद् द्विरूपमेव जगत् , नैकरूपमिति चेत्; तन्न ; हि ज्ञानमात्रा न दर्थतवव्यवस्था, अलातचक्रादिज्ञानेष्वभावात् । तस्माजातमपि ज्ञानं युक्त्या विरुध्यते, न वा . अत एव प्रमाणोत्पन्नं न वेति परीक्ष्यम् ; न ज्ञानमित्येवास्थेयम् । यद्वा युक्त्या विरुध्यते न वेति युक्तिविरोधा विरोधे परीक्षा प्रमाणोत्थमिति च प्रमाणसामध्यसामथ्र्यपरीक्षेति विशेषः । ननु कथं प्रत्यक्षे युक्त्या बाध्यते ? , सत्यम न बाध्येत यदि तत् मत्यलं स्यात्; प्रत्यक्षाभासरूपं तु तदिति आहुर्विधातृ प्रत्यक्षमू'
पृष्ठम्:ब्रह्मसिद्धिः (मण्डनमिश्रः).djvu/४९६
दिखावट