पृष्ठम्:ब्रह्मसिद्धिः (मण्डनमिश्रः).djvu/४९४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

180 ब्रह्मसिद्धिव्याख्या सर्वविज्ञानशून्यतारूपा स्तिमितावस्था, सर्वाप्रतिपत्तौ कस्यचिन्नियतस्य पटादेरभावात् । तस्मात् घटादिभ्यो भिन्ने पटादौ ज्ञानपरिणामे सत्येव तद्भिने घटादौ ज्ञानापरिणामोऽभावंज्ञानहेतुरिति वाच्यम् ; न चैषोऽनुप लब्धेर्विशेषो घटपटयोपैदज्ञानात् प्राकू सिध्यति । ततश्च पूर्ववदितरेतरा श्रयत्वम् । ननु प्रत्यक्षेणैव भेदो गृह्यते ; तथाहि-निर्विकल्पकप्रत्यक्षस्य सामान्यमात्रविषयतामपाकुर्वता वार्तिककृता ‘‘ तदयुक्तम्_" इत्याद्युक्तम् । ननु “ वस्वसंकरसिद्धिश्च तत्प्रामाण्यमुपाश्रिता" इत्यपि तेनोक्तम्; बाढम् ; संयोगसमवायात्मकासंकराभिप्रायं तु तत्-इति ये त्वाहुःते प्रागेव ‘ आहुर्विघातू प्रत्यक्षम्’ इत्यत्र निरस्ताः । येऽपि काणादा एवमाहुः-भूतलादिवस्तुग्रहणप्रतियोगिस्मरणरूपयेति कर्तव्यतयाऽनुगृहीतादक्षात् संयुक्तविशेषणसंनिकर्षेण लब्धं जन्म येन तत् प्रत्यक्षान्तरमभावग्राहकम् _ । न च वाच्यम् ---अक्षजं तच्चेद्विषयज्ञानवत् प्रथममेव स्यात , न पश्चात् ; प्रतियोगिस्सरणव्यवहिते चालव्यापारे जातं कथं तदक्षजम् ? इति; यतो यथा शब्दस्मरणापेक्षिवात् सविकल्पकं निर्विकल्पकात् पश्चाद्भावि, यथा च शब्दस्मरणव्यवधानेऽपि तदनुगृहीता- दक्षादुत्पत्तेननक्षजम् , तथा ‘नास्ति ’ इत्यपि ज्ञानं प्रतियोगिस्मरणा- पेक्षित्वात् पश्चाद्भावि, प्रतियोगिस्मृतिव्यवधानेपि च तदनुगृहीतादक्षा P. 58-14 दुत्पतेश्चक्षजमिति, तान् प्रतीदमेव वक्तव्यम्—अन्योन्यसंश्रयात् इति । प्रमाणान्तरम्; प्रत्यक्षान्तरमित्यर्थः । प्रत्यक्षेणापि विषयनिषेध्यौ भेदेन गृहीत्वा तयोरन्योन्याभावो ग्रहीतव्यः; ततश्चाभावगस्य इव प्रत्यक्षगम्येऽ- प्यभावे तुल्यमितरेतराश्रयत्वमित्यर्थः । इतश्वन्यत्रान्याभावज्ञानासंभव इत्याह--किंचेति । मीयमानमेकं सन्मात्ररूपं येषां भावानामिति विग्रहः । तद्विवृणोति--अपिचेति । यथा प्रमाणं हि प्रेमेयव्यवस्था; तच्च घटपटौ सन्मात्ररूपतया प्रभिणोति, न विशेषरूपतया; अतः सन्मात्रस्वभावावेव तै, न भिन्नस्वभावौ ; ततश्र न तयोरितरेतराश्रयत्वम: अत नेतरत्वेनाभिमते घटे नेतरस्य पटस्य