पृष्ठम्:ब्रह्मसिद्धिः (मण्डनमिश्रः).djvu/४८७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

तर्ककाण्डः 53 ‘न च भिद्यते ’ इत्यत्राप्यनुवर्तते । इतिरुदाहरणसमाप्त । जनकत्व-P. 53-21 मजनकत्वमिति ; जननशक्तिरशक्तिश्श्रेत्यर्थः । नन्वेकत्रैकस्य शक्रयशक्ती विरुध्यमाने तिलपयसोर्मेदं गमयत इत्युक्तम् । तत्रैव व्यभिचारो वाच्यः । न चेह तथा; तथाहि- बीजानामेकत्रैवाङ्करे शक्तिः ; न च तत्राशशक्तिः, आपि त्वन्यत्र ; अतो वैषम्यान्न वीजादिव्याभचार इत्याशङ्कयतिं- अथेति । अन्यत्राशक्तिस्तु भिन्नविषयत्वादेव विरुढेति भावः । सिद्धान्ती तु वाक् छलेन साम्यमाह - अन्यमिति । भवत्वेकत्रैव शक्तिः; तथाप्यतीतमप्येक मनागतं च; अतश्चैकत्रैव शक्तिरेकत्रैवाशक्तिरिति शक्त्यशक्त्योः समान- विषयत्वात्साम्यमेवेत्यर्थः । अथ कार्यगम्यत्वाच्छक्तेरनन्तरोपन्न एवाङ्करे तेषां शक्तिः, नातीतानागतयोरिति न च तत्रैवाशक्तिः , तिलपयसस्त्वेक- त्रैव दक्षुि शक्तिरशक्तिश्च ; ततश्च वैषम्याद्रीजादिमिर्न व्यभिचार इति पुनराशङ्कयति - अथेति । तत्रोत्तरमाह--अभेदेऽपीति । एतदुक्तं भवति यत्तावद्दधि पयसो जातं तदभेदात तिलेभ्योऽपि जातमेव; अतश्च यथा पयसस्तत्र शक्तिरेव नाशक्तिरिति न शक्त्यशक्त्योर्विरोधः तथा तिलाना मपि; अतो न ततस्तयोर्मेदावगतिः । अथ च दधि चेत्तिलानां शक्तिः दध्यन्तरमपि जनयेत्; न च तथा ; अतोऽशक्तिरप्यस्तीति शक्त्यशक्त्यो- र्विरोध इत्युच्यते, तत्र; पयोज एव हि दनि तिलानां शक्तिर्न दध्यन्तरे, बीजादीनामिवाततािनागतयेः; अतश्र यत्र शक्किस्तत्राशक्तिरेव नास्ति; कया विरोधः स्यात् ? या त्वन्यत्राशक्तिः, सा विभिन्नविषयत्वादविरोधि- नीति न शक्यशक्त्योर्विरोध इति । एकत्र चेच्छक्तिरन्यत्रापि तुल्यजातीये स्यात्; अतस्तदपि तिला जनयेयुरिति चेत् तत्रेत्याह--न हीति । मतान्तरमाशङ्कयति--अयेति । विनियोगभेदमाह--दनि हीति । तदूषयति--तदपीति । अनैकान्तिकत्वमाह-एफ़वेऽपीति । तदेव प्रपञ्चयति-तदेवेति । एकमपि वस्तु सइकारिसहितं कार्यं विनियुज्यते न केवल; अतनैकत्रापि बिनियोगाविनियोगस च्वेनानैकान्तिकत्वात् न वस्तमेवायमतिहेतुत्वमित्यर्थः । अथ सहकारिसंनिधानोपाधिभेदात् भिन्नमेव वस्तु कंबल ; अतो नानैकान्तिकत्वमित्याशयति--अथेति । सिद्धान्ती