पृष्ठम्:ब्रह्मसिद्धिः (मण्डनमिश्रः).djvu/४८०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

14B अक्षतािडिव्याख्या प्युष्णस्पर्शात्तावदेकस्मादाहपाककार्यभेदोऽस्ति ; अतो विपक्षादव्यावृत्तिहृतोतवव सैवेत्याह--काममिति । न च पाकदाहयोर्भेदोऽसिद्ध इति वाच्यमित्याह तौ चेति । यद्यपि वह्निसंयोगविक्रिया पाकोऽपीति तद्विक्रियात्वसामान्य- मुभयत्राप्येकमस्ति, तथाप्यवान्तरभेदस्तथोलोंकप्रसिद्धत्वान्नापलपनीय इत्यर्थः। न केवलं लोकसिद्धमेकस्मात् कार्यंभिन्नत्वम्, अपि तु वादिभिरपि सवैरिद- मिष्टमित्याह-कर्मेति । मुक्तस्येषोगेतिकर्म पूर्वापरदेशाभ्यां विभागसंयो गयोर्वेगाख्यस्य संस्कारस्य हेतुरसमवायिकारणम् ; आत्मा चेच्छासुख दीनां हेतुः समवायिकारणमिति कणभुजेष्ठम् । तथा सवादयः प्रत्येकम भेदा | अविद्यमानभेदांशा अङ्गलाधवार्यप्रकाशादीनां हेतव इति योज्यम् । कचिदभेदादित पाठः; तत्रायमर्थः-न च ते मिस्र इति वाच्यम्; कुतः? प्रत्येकं सत्वरजस्तमसामभेदात् । अतश्चैकस्मादपि कार्यमेदोऽस्तीति भावः । तत्र सत्वं लाघवादीनाम्, रजः प्रवृत्तिदुःश्वानां हेतुरिति कपिलस्येष्ठम् । तथां रूपादयः प्रत्येकं खगोचराणां ज्ञानानां हेतव आलम्बनप्रत्ययाः रूपं रूपक्षणानां रस रसक्षणानां चोपादानप्रयय इति बौद्धमतम् । ननु नार्थक्रियाभेदमात्रात् भावभेदं बूमः ; अपि तु यतो यस्य भेदः, तत्रादृष्ट- त्वेनासंमावनी यार्थकिया, तत इति परञ्चोदयति-नन्विति । अत्रैवोदा हरणमाह-यथेति । यथा बधिरे सत्यपि चक्षुषि शब्दबुद्धिरदृष्टत्वेना संभावनी, ततश्चक्षुषो मिनं श्रोत्रं कल्प्यत इत्यर्थः । नन्वेवमन्यत्र कथं मेदसिद्धिरित्याशङ्कयाह--प्रायेणेति । परस्परासंभवीनि कार्याणि येषां ते तथोकाः सर्वत्रैव प्रायेणान्यकार्यमन्यत्र न दृश्यते ; अतो मेदसिद्धि- रित्यर्थः । शरथाङ्गयोर्विशरणैककार्ययोर्निवृत्यर्थं प्रयग्रहणम् । कथं तर्हि तयोर्भाव इत्याशङ्कच विशरणैककार्यत्वेऽपि प्रायेण परस्परासं भवनि कार्या न्तराणि तयोरपि सन्तीति प्रायेणेति पुनयोज्यम् । सिद्धान्ती त्वाह अयेति; अन्यकार्यस्यान्यत्रासंभवः कथं प्रत्येतव्य इत्यर्थः । पर आह नन्विति । तदूषयति--नेति । अद्वैतिनामेकत्रैव सर्वं कार्यं दृश्यते; अतो नान्यकार्यस्यान्यत्रादर्शनमस्ति । तत्र सति भेदे अन्यकार्य मन्यत्र न दृश्यत इति वाच्यम् । एवं च मेद्दे सति कार्यादर्शनम् , अदर्शने सति देव इतीतरेतराश्रयः स्यात् । अतो न कार्यक्षेदात्भाव- मेवानुमानमित्यर्थः । अथ- सत्यपि पठे घटकार्यस्यादृष्टस्य पश्चात्तदंते