सामग्री पर जाएँ

पृष्ठम्:ब्रह्मसिद्धिः (मण्डनमिश्रः).djvu/४४८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

118 कर्षित इत्याशङ्क्याह-देहेति । देहे “ अहम् इत्यात्मज्ञानं वेहास्माभि ' मानःतत्र यथा देहातिरिक्तात्मावबोषकादम्नायादनादिरविद्यासंस्कार एव

जन्मनि जन्मनि देहात्मविभ्रमहेतुस्तयेहापीत्यर्थः । ननु 'मम शरीरम् ’ इति व्यतिरेकप्रत्ययात् देहमामिमाने विभ्रमहेतुः ऋष्ठः, नाम्नाथात्। मैवम्; ममात्मा’ इत्यव्यतिरेकेऽपि व्यतिरेकप्रत्ययदर्शनात् नायमैक्रान्तिको हेतुः। अत आम्नायादेव देहात्माभिमानेऽनादिरविघालंकारो विभ्रमहेतुः सुप्त इति भुक्तम् । । च अविद्यासंस्कारश्रमहेतुत्वमात्रदृष्टान्तोऽयम् एतावता कथं सर्वजननः प्रपञ्चप्रत्ययो अम इत्यपि निरस्तम्; सर्वजनीनोऽपि हि। बेडास्मप्रत्ययो विभ्रमो दृष्ट • इति । किमिति पुनराम्नायात् प्रत्यक्षादिषु विधमहेतुदंषः कल्यते, न तु प्रत्यक्षादिबलेनानाय एवेत्याशङ्क्याह- न त्वेवमिति । न हेि स्वभावतः शब्दो दुष्टः, किंतु पुरुषदोषेण ; तेनाम्नाये निराश्रयस्य दोषस्य शङ्कयापि कर्तुमशक्या, दूरतस्तु निश्चय इत्यर्थः । शङ्करणे तु दोषमाह- सत्यामिति । सत्यां वा दोषशङ्कनयामाग्नायः प्रमाणमेव न स्यादित्यर्थः । नन्वेवं प्रत्यक्षादयोऽपि सदोषाः कथं प्रमाणम् । आस्ति च तेषु लोके ‘ प्रमाणम्’ इति प्रसिद्धिस्त्याशङ्कचाइ-प्रत्यक्षादीनां त्विति । तुशब्दो विशेषप्रदर्शनार्थः । इदमुक्तं मषति-द्विविधं प्रामाण्यं तच्वावेदन लक्षणं व्यवहाराविसंवादलक्षणं च । तत्र दोषवे प्रत्यक्षादीनामपि तरवा वेदनलक्षणं प्रामाण्यं सत्यं नास्त्येव ; व्यावहारिकं त्वस्ति ; अतो न प्रसिद्धिहानिरिति । ननु दोषवत्त्वेन रजताविभ्रमवत् व्यावहारिकमपि प्रा माण्यं कथमित्याशङ्कयाह-अविद्योति । दोषनिवृत्तौ हि व्यवहारसंघादो भवति । अयं त्वविद्यादिसंस्कारोऽनादित्वात स्थिरः पूर्ववत् व्यवहारेऽप्यनु वर्तते । तेन व्यवहारविपर्ययाभावात् प्रत्यक्षादीनां व्यावहारिकं प्रामाण्यं घटत इत्यर्थः । ननु दोषववेऽपि चेत् व्यावहारिकं प्रामाण्यम् , अप्रा माण्यं तर्हि क भविष्यति ! अस्ति च रजतादिभ्रमेषु तसिडिरिया शङ्खाह-यत्र चेति । तेन प्रत्यक्षादेः रजतभ्रम न दोषवविशेषे ऽपि लैकिकप्रमाणाप्रमाणविवेको घटत इति भावः । ननु वोपवतामपि चेत् प्रत्यक्षादीनां प्रामाण्यम्, तर्हि शब्देऽपि दोषवति तथैव भविष्यति ;