पृष्ठम्:ब्रह्मसिद्धिः (मण्डनमिश्रः).djvu/४४३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

जलसिद्धिव्याख्या शह्पाणिकृता तककाण्डः आम्नायप्रमाणक्रमंद्वयं बलेति ब्रह्मकाण्डे वृत्तम् । तत्राधुना यत प्रत्यक्षादिविरुडं वचस्तदश्रमाणम्, प्रत्यक्षादिविरुद्धत्वात् शिलाङवनादि वाक्यवत्; अझ्याम्नायोऽपि व्यावृत्तखभावनोऽवग्राहकैः प्रत्यक्षादिमिर्विरुन्दः; अतोऽप्रमाणमित्याक्षिप्य प्रत्यक्षादिदिरुइवादिति हेतोरसिडतामभिधातुं प्रत्यक्षविरोधभावं तावदाह--आहुरिति । यदि प्रत्यक्षम् ‘ घटः पटो न भवति इति निषेद्धं स्यात्, तंतो भेदविषयत्वादद्याम्नायं विरुन्धत्; न तु तन्निषेद्ध विपश्चित आहुः अपितु वस्तुंखरूपमत्रस्य विधातृ ग्राहकम् : तेन हेतुना एकत्वेऽद्वयविषये योऽयम् - “ एक एवायमद्वितीयः इत्यादिराम्नायः स प्रत्यक्षेण न विरुध्यत इत्यर्थः । अत्रेदानीं प्रत्यक्षादिविरोधेऽपि नाम्नायस्य प्रामाण्यं व्याहन्यते ; पौरुषेयं हि वचो वक्तृप्रमाणाधीनप्रामाण्यं । तद्विरोधे स्यादप्रमाणम् नापौरुषेयमनपेक्षप्रामाण्यम् तथा सत्यपि प्रत्यक्षादिविरोधे यदि तदप्रमाणं तदा विपर्यय एव किं न स्यात् ? न हि प्रत्यक्षदेराम्नायम्य च तुल्येऽ• नपेक्षत्वे कश्चित् विशेषहेतुरस्ति, येन प्रत्यक्षादिविरोधादाम्नायोऽप्रमाणम्, न तद्विरोधात प्रत्यक्षादीति ; अतो वृथैव प्रत्यक्षाद्यविधप्रतिपादनप्रयास इति तद्विचारांरम्भमक्षिपति - नन्विति । नापेक्षिता खम्रामाण्याय प्रत्यक्षादेः प्रमाणान्तरस्य वृत्तिः व्यापारः येन स तथोकः । तद्विरोधे इति प्रस्यक्षादि-- विरोधे इत्यर्थः । अवैकीयमतेन तावत्परिहारमाह-तत्रेति । प्रत्यक्षादिविरोधे आम्नायस्य दौर्बल्यम् ; अतः प्रत्यक्षादिविरोधेन तदप्रामाण्यं प्राप्तम् ; न तु तद्विरोधे प्रत्यक्षादेरित्याम्नायप्राभण्याय प्रत्यक्षाद्याधिरोवप्रतिपादनमर्थवत् , न तु वृथै. त्यर्थः । कथं दौर्बल्यमित्याह--सापेक्षत्वादिति । सापेक्षत्वमाह--तथा.