100 महासिद्धिव्याख्या नाझीछतं गार्हस्थ्यं येन तस्यात्मविद्यामुपादाय तथैव कृतकृत्यो भविष्या मीति मन्वानस्यात एव अणापाकरणं प्रत्यनादृतस्येति संबन्धे षष्ठी, तत्संबन्धित्वेनात्मविद्योत्पत्तिप्रतिबन्धुत्वं दर्शयतीयं वक्ष्यमाणा स्मृतिः । कस्य प्रतिबन्धुत्वमित्यपेक्षायामाह—अवश्यकर्तव्यतया यद्विहितसृणापाकरणं तस्य यदकरणं तदेव निमित्तं यस्य पाप्मनः तस्येति कर्तरि षष्ठी, विद्योदयस्येति च कर्मणि ; तेनायं स्मृत्यर्थः--गृहस्थः सन् ऋणानि त्रीण्यपाकृत्य मनो मोक्षे निवेशयेत् , अनपाकृतर्णस्तु मोक्षमिच्छन् विहि- ताकरणनिमित्तपापप्रतिबद्धविद्यत्वात् न मोक्षे विन्दति ; किं तु तेन पापे नाधो गच्छतीत्यर्थः । यद्यपि स्मृताववश्यं गृहस्थ इति विशेषो नास्ति, तथापि पूर्वोक्तश्रुतिविरोधात् कर्प्यः ; अन्यथा स्मृतिरप्रमाणं स्यात् । तदुक्तम् —“ विरोधे त्वनपेतं स्यात् ” इति । एवमृणापाकरणपझं दूषयित्वा संयोगपृथक्त्वपलं कर्मणां साक्षात्कारि- ज्ञानोपयोगित्वेन सिद्धान्तानुगुणमुपपन्नमभ्युपगच्छति--इदं त्विति । स्व वाक्योपात्तवर्गादिकार्यान्तरनिराकाङ्क्षाणामपि कर्मणां " तमेतं वेदानुवचनेन बक्षणा विविदिषन्ति ” इति विद्यासंयोगस्य पृथक्त्वात् विद्यङ्गभावों विशङ्गत्वं यदुक्तमिदं युक्तमित्यर्थः । तु शब्दः पूर्वोक्तपक्षेभ्यो विशेशयं दर्शयति । एवमङ्गभावं प्रसाध्योत्पत्तों कार्यं चोभयथापि द्रव्यादिप्रयाजा- दिवदङ्गभावस्य दर्शनात् विशिनष्टि-सेऽपि कर्मणां विद्यां प्रत्यङ्गभावः यथोक्तप्रकारेण विद्योपयर्थतया, न तु यथा दर्शपूर्णमासादिकार्यं स्वर्गा दिकं प्रत्युपयोगेन प्रयाजादीनां तथेत्यर्थः । उत्पत्तिरत्राभिव्यक्तिरभिप्रेता । कस्मात्पुनः कार्योपयोगेनैव कर्मणां विद्याङ्गस्वं न भवतीत्याह-विद्याया इति । दर्शदौ हि स्वर्गादि कायमस्ति, तेन युक्तं तदुपयोगेन प्रयाजादीनामङ्गत्वम्_ इह तु विद्यायाः साक्षास्करणळक्षणाया न कार्यान्तरमस्ति । मोक्षः कार्य इति चेन्न ; तस्या एव मोक्षत्वात्; कार्यत्वे चानित्यत्वात् । नन्वविद्या निवृत्तिरेव कार्यं भविष्यति । मैवम् । विद्योदय एव तनिवृत्तिः , न पृथकू ; तदुक्तम् - “ विरोधिभावान्तरोत्पाद एव पूर्वप्रध्वंसः ’ इति । एवं पृथक्संयोगपत्रं वसिद्धान्तानुगुणत्वेन युकरवेन चाभ्युपगम्येदानीं कर्मभिः संस्कृतस्य ज्ञानाघिकारः’ इतमिमपि पक्षी वसिद्धान्तानुगुणं
पृष्ठम्:ब्रह्मसिद्धिः (मण्डनमिश्रः).djvu/४३६
दिखावट