पृष्ठम्:ब्रह्मसिद्धिः (मण्डनमिश्रः).djvu/४२४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

88 वक्षसिद्धिव्याख्या कर्मापि सप्तमं प्रमाणं स्यात् ; अतः प्रमाणस्यैव ज्ञानोत्पत्तावुपयोगः, न कर्मणामित्यर्थः । ननु यदि नाम कर्मणां ज्ञानोत्पत्तावुपयोगो नास्ति, ज्ञान- कार्योत्पत्तौ तु सहकारित्वेनोपयोगो भविष्यतीत्याशङ्कयाह-न चेति । कुत इत्याह-ज्ञानस्येति । कार्ये हि संभूय कुर्वतः सहकारित्वम् , यथा। क्षिप्तत्यादेरङ्करम् ; न चात्मज्ञानस्य विषयपरिच्छेदादन्यत् कार्यमस्तीत्यर्थः । नन्वस्त्येव ज्ञानस्य कार्यान्तरं मोक्षः; तथा च ज्ञानान्मोक्षः भूयत इत्या- शङ्क्याह-न तस्येति । मोक्षो नाम ब्रह्मखरूपम् , तश्च नित्यमिष्टम् तचेत्कार्यं स्यात्, ततोऽनित्यं स्यात् । अथवा मोक्षश्चेत् कार्यः स्यात् ततस्तस्यानित्यवान्मुक्तस्य पुनरावृत्तिः स्यादिति भावः । ननु यदि नाम मोक्षः साक्षात्साध्यो न भवति, तथापि बन्धहेतुप्रध्वंतो ज्ञानस्य साध्य भविष्यति ; अतस्तत्र कर्मणां सहकारित्वेनोपयोग उपपत्स्यते ; प्रध्वंसस्य च कार्यस्यापि नित्यत्वादनित्यत्वदोषोऽपि न संपत्स्यत इत्यभिप्रायेण पर आह -- बन्धहेत्विति । ननु मोक्षः पुरुषार्थः, न बन्धहेतुविच्छेदः; स चेत ज्ञानसाध्यः स्यात् , ततो ज्ञानमपुरुषार्थफलमनुपादेयं स्यात् ; कुतश्च तद मोक्षः स्याव ! न हि तस्य ज्ञानादुपायान्तरं भूयत इत्याशङघ स एवाह इतीति । इतिशब्दो हेतौ ; यस्मात् बन्धहेतुविच्छेदो ज्ञानस्य साध्यः, तस्मात् तस्मिन् बन्धहेतौ ज्ञानाद्विच्छिन्ने तस्य बन्धहेतोरभावान्मुच्यते ; ततश्च ज्ञानस्य मोक्षफलवानापुरुषार्थफलत्वम्, न च निरुपायत्वान्मोक्षसंभव इत्यभिप्रायः। तदेतद् दूषयितुं पृच्छति - क इति । इतर आह--अविद्योति । तदूषयति--न तर्हिति । विद्यायाः पृथक् व्यतिरिक्तो नाविद्याविच्छेदों विधासाध्योऽस्ति, यत्र कर्मणां सहकारित्वमिति भावः । किमिति नास्ती त्याह-यत इति । अप्रहणमविद्या, तच्च प्रहणप्रागभावः, तस्य च नियति ग्रीहणात्मकविद्योत्पाद एव, खप्रागभावविमर्दात्मकत्वात् मावोत्पादस्य ; अत। नाविधानिवृत्तिर्विद्यया पृथक् साध्या, यत्र कर्मणां सहकारित्वं स्यादिति मावः । अत्र चोदयति- स्यादिति । भवत्यग्रहणलक्षणायामविद्यायां विद्यो स्पद एवाबिद्यानिऋत्तिरिति पृथक् साध्याभावःविपर्ययज्ञानलक्षणायां न