सामग्री पर जाएँ

पृष्ठम्:ब्रह्मसिद्धिः (मण्डनमिश्रः).djvu/४०२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

86 वक्षसिद्धिव्याख्या चारी ; तस्मात् स एवाश्रयितव्यः एवं चेत्कार्याकार्यारमकर्थान्तरमात्र । संसर्गे पदानां तत्पर्यशक्तिरवधृता, तथा सति यत्र लोके व्यवहाराय पदं कार्यं प्रयुज्यते वेदे च, तत्र तेन संसर्गः; यत्र तु वेदान्ते न भूयते, तत्र विनापि तेन पदार्थानां परस्परसंसर्गादन्योन्यविशिष्टसिद्धार्थप्रत्ययसिद्धिरिति सिद्धं सिद्धेऽप्यर्थे शब्दस्य प्रामाण्यम् । अतश्च लोके व्युत्पत्तिव(क्ये दृष्टो ऽपि कर्वव्यतिषङ्गो न कार्यमात्रान्वये शब्दतात्पर्यशक्तिनियामकस्वेनाश्रयि तव्यः । एतच्चावश्यं त्वयाप्यङ्गीकर्तव्यम् , अन्यथा यछोके दृष्टं तच्च सर्व पदशक्तिनियामकत्वेनाश्रयेत, ततो लेके व्युत्पत्तिवाक्ये वक्तृविवक्षापरत्वं पदार्थान्वयस्य दृष्टमिति वेदे वक्तुरभावेन विवक्षाभावात्' विषयकेभ्योऽर्थ प्रतीतिर्न स्यात् ; अस्ति च सा । तस्मात् कर्यव्यतिषङ्गो व्युत्पत्तावतन्त्र मित्यकार्येणापि पदार्थानां संसर्गात् सिद्धं सिडेऽप्यर्थे शब्दस्य प्रामाण्यम् । अपि च सर्वेषां पदानां पदार्थानां कार्येणैव संसर्गेऽङ्गीक्रियमाणेऽरुणादीनां परस्परं क्रीणातिना च क्रिया कारकलक्षणः संमग न स्यात् ; तत्रारुणादि करकविशिष्टक्रयविषयो नियोगो न प्रतीयेत, किं तु क्रयमात्रैकपदार्थ साध्ध एव स स्यात् । अथ मतम्~ कारकविशिष्टधात्वर्थविषयो हि नियोगः प्रतीयते, न धात्वर्थमात्रविषयः ; न च कारकसंसर्गमन्तरेण धात्वर्थी विशिष्टो भवति ; तेन विनियोगं प्रति न प्रत्यर्थी, अपि त्वयी नियोगः ; ततश्च नेियोगान्वयेऽपि पदार्थानां न परस्परान्वयव्याघातः । तत्रोच्यते नियोगाच यावत्पूर्वभावी तर्हि विनियोगः । परस्तु भवतु पूर्वभावी विनि- योगः, तथाप्यस्ति तावन्नियोगान्वय इति पृच्छति-किमतो यद्यवमिति । सिद्धान्ती तु साभिप्रायं प्रकटयति-एवं सति अस्ति नियोगातिरिक्तपदा र्यान्वयेऽपि पदस्य तात्पर्यसामर्यम् ; अतः सिद्धो नः पक्षः। ननु नियो गान्वयानामन्योन्यमन्वयः, न तु तन्निरपेक्षणाम् ; अतो नियोगनिबन्धन एवासाविति न तेन विनोपनिषत्सु पदानमन्वयशक्तिरिति ; तत्राह नियोगनिरपेक्षमेव पदानामन्योन्यान्वयसामर्थम् । कुतः ? पूर्व परस्परान्चि तानां सतां पदानां पश्चान्नियोगेनान्वयात् । अयमाशयः -विशिष्टेन हि विषयेण नियोगस्यान्वयस्त्वयेष्टः ; न चासौ कारकैरनन्वितो विशिष्टो भवति ; न ; चाविशिष्टो नियोगेनान्वीयते अविशिष्टस्यांविषयत्वात् , अविषयस्य च