पृष्ठम्:ब्रह्मसिद्धिः (मण्डनमिश्रः).djvu/१७८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
86
ब्रह्मसिद्धिः

विशेषाद्भविष्यति वृष्टिः’ इति । तत्र यदि ‘अस्ति’ इति बुद्धिः प्रमाणविषयतां गोचरयति, प्रमिते हि स्यात् न प्रमाणावेव; न हि प्राक् प्रमाणेरपत्तेः सन्' प्रमाण संबन्धः; प्रमाणसंबन्धनिबन्धना चेयं बुद्धिः । अथ वैयात्यादुत्तरकालतामे- “वास्या ब्रूयात्; त्रैविध्यमनुपपन्नम् , प्रमाणसंबन्धस्याभेदाद्भिन्नकालेष्य- प्यर्थेषु ।

स्वसंबन्धितया मानमथ वस्त्वधिगच्छति ।
तथापि नैव भियेत नेत्थं चान्यव्यपेक्षता ॥ ३२ ॥ ।

अथ मतम्—-आत्मसंबन्धितयैव प्रमाणेनार्थोऽवगम्यते; अतो न ‘अस्ति’ इति बुडेरुत्तरकालता प्रमाणसंबन्धविषयाया 'अपि, खामसंबन्धितनैवार्थस्य प्रतीतेः । एवमप्यस्तीत्येव सर्वत्र स्यात्; न त्रैविध्यम् , सर्वस्य प्रमितौ। प्रमणसंबन्धस्य वर्तमानत्वात् । न चेत्थ प्रमाणान्तरन्यपेक्षत्वमस्त्यर्यनिष्ठे बचासि, तत्प्रमाणसंबन्धस्यैवास्त्यर्थत्वात् ।

अन्यपानावगम्यत्वमथ ° लिङ्गात्रिवेक्ष्यते।
स्याडिङ्गमपि सापेक्षी तत्सिद्धेस्तत एव चेत् ॥ ३३
नैरपेक्ष्यं यदि न तदोदे दण्डैर्निवार्यते ।। ३३. ।

अथ मतप्रमाणान्तरगम्यतैव लिङ्गनाधिगम्यते; तेन नेत्तरकालता; तच प्रमाणं त्रिकालमिति त्रैविध्यम् । किं पुनस्तत् ? प्रत्यक्षम्; तथा हि भूतायां द्वौ कस्यचिद्भतं प्रत्यक्षम्, भविष्यन्यां भविष्यत्, वर्तमानेऽ- भे वर्तमानमितेि । एतच वार्तम्, नित्यानुमेये तस्याभावात् । अपि च लिङ्गमप्येवं प्रमाणान्तरापेक्षत्वादप्रमाणं स्यात्। अथ लिङ्गदेव प्रमाणान्तर- सद्भावस्य सिदेर्निरपेक्षत्रम् ; तथा हि-"प्रमाणान्तरसद्भाव एवेदानीं लिङ्क

प्रमाणम् न च तत्रान्यदपेक्ष्यते ; प्रमाणसद्भावद्वारा प्रमेयसिद्धिरिति ;


1 सप्रमाण-B

2 वास्यां-B

3 B omits

4

5 Aamita ऑपि

6 अमितेः--B

7 स स्यात्

8 ई लि त्रिधेष्यते-B

9 C Citemkha's commentay--शास्राणि चैत्रमाणं स्यरित्यादौ चेदिति शब्दस्य निश्चयेऽपि प्रयोगार्थ दिना न पौनरुक्तम् ; तत एव तु इति पाठे तु न तच्छ

10 प्रमान्तरसंबन्धा-B = 0

11 प्रमान्तर-g

12