पृष्ठम्:ब्रह्मसिद्धिः (मण्डनमिश्रः).djvu/१५२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
60
ब्रह्मसिद्धिः

न प्रत्यर्थी युक्त्यापबाध्यते; सत्यम्; प्रत्यक्षतैव भेदज्ञानस्य नेत्यावेदितम् यथा क्षेपीयस्सर्वतोदिक्संयोगकारितस्यालातचक्रज्ञानस्य ; तत् सदप्यप्रमाणोत्यं प्रत्यक्षसरूपं चमढश्यालातचक्रादिज्ञानवन्न तस्वावगमनिमित्तम् । ननूक्तेन प्रकारेण प्रमाणादन्यतोऽपि भेदज्ञानस्योदयो न संभवति ; को वान्यथा।ह ? न हि परमार्थतो भेदावगमोऽस्ति यदि स्यात्, कथं भेदोऽपयेत अप ; इवे 'वा कृयं तदवगमः? नावगम्यमस्ति, अवगम्यते चेति दुर्घटम । किं तद्ददम् ? अविद्या विभ्रमः ; यथावभासं च वेद्यसद्भावे न विभ्रमःकिं तु सम्यग्ज्ञानम् असति चावगमोऽनुपपन्नः । तस्मान्न परमार्थतः सत्त्वेन 'निरुच्यते, नाप्यसवेन, लोके सिद्धत्वात् सर्वप्रवादेष्वित्युक्तम् ।

अपि च ज्ञानद्वयेऽस्मिश्चतस्रः कल्पनाः संभवन्ति— ज्ञानभेदात् सामान्यव्यक्तिविभागेन वस्तुद्वयम्, यथाहुः संसर्गवादिनः । एकं वा सामान्यविशेषात्मकं वस्तु, यथाहुरनेकान्तवादिनः । विशेषा एव बा वस्तूनि, तेषामात्यन्तिकभेदनिभयासामथ्र्योत् तदुपादानस्तद्विषय एवाभेदः कल्पनाज्ञानगोचरः; इष्टा हि भिन्नेष्वभेदकल्पना ‘वनम्’ इति--यथाहुराय । अभेदो वा परमार्थः ; तस्यानवच्छिन्नस्यानन्त- स्य तथा निश्चेतुमशक्तेरनादित्वाच्चाविद्यायास्तदुपादानातद्विषया भेदपरिक सनाः ; इष्टा हेि तरङ्गभेदादभिन्ने चन्द्रमसि भेदकल्पना । तन्नापरीक्ष्य तषनिश्चयः । तत्र परीक्षायाम्

न तावद्यमैकाम्यप्रख्यानानवकल्पनात् ॥ १२ ॥
समवायकृतं तच्चेन्न भेदस्यापरिच्युते ॥ १२ ॥

न तावद् वे वस्तुनी सामान्यविशेष, प्रख्याभेदात ; समानाधिकरण न हीगे प्रख्ये जायेते सन् घटःगौः स्वस्तिमती’ इति ; न व्यधि अरणत्वेन यथा नीलपीतप्रख्ये, यथा वा दण्डो देवदत्तः' इति ; नापि विशे ऋणविशेष्यभावेन यथा ‘दण्डी’ इति, संबन्धस्याप्रतिभासनात्; न च वस्तुभेद विषयत्वे सामानाधिकरण्यमवकल्पते सत्यपि संबन्धे ; विशेषण संबन्धद्वयं विनेष्यत्वेन द्वाभ्यामेकया वा उद्य ‘गृधते, न तु परस्परास्मत्वेन ; पर

स्परमत्वेन वेह प्रतिपत्तिः प्रत्यात्मवेदनीया; विप्रतिपत्तेश्च सामान्यविशे


1 Adds तस्य

2 निरूप्यते—1

3 A omits वस्तु

4 भवते-A and C

5 तमग-A and O