पृष्ठम्:ब्रह्मसिद्धिः (मण्डनमिश्रः).djvu/१४१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
49
तर्ककाण्डः


बस्तुस्वभावस्थितावितरेतराश्रयप्रसङ्गात् । अथवा यदुक्तम्-एकस्मारे दादव्यतिरेकाद्वस्तुनो भेदाभावप्रसङ्ग इति, तत्राहुः-न मेद एकः, रूपविरोधात् ; एकत्वे च तन्निमित्तं वस्तूनामेकत्वं स्यात् । तस्मात् प्रति- भावं भेदो भिद्यते ; कथं तर्बनेकाश्रयत्वम् ? अपेक्षातः ; तथा हि प्रतियोग्यपेक्षं तस्य स्वरूपं व्यवस्थितम् । तथा च यथा ययं भेदैः प्रति. योग्यपेक्षैरात्ममूतैमिन्नाः सर्वे भावा इति । तत्रोच्यते-पौरुषेयीमिति । पुरुषो कमर्थं गृहीत्वा परमपेक्षते कार्यार्थम्, खहेतुभ्यस्तु प्रतिलब्धाविक- लखमावानां भावानां मावान्तरेषु किमर्थापेक्षा ! ननु स्वभावस्थितये नाना- विधा हि भावस्खमावाः; तत्र कश्चित् प्रतियोग्यपेक्षयैव व्यवतिष्ठते 'वस्तु- तथे; यथायमेव भेदः । न तर्हि हेतुभ्यो भावस्याविकलात्मलामः, मेदाः ख्यस्य रूपस्य प्रतियोग्यपेक्षत्वात् । हेत्वन्तराच प्रतियोगिनः संपवमानः पश्चादेदो न स्वभावः स्यात् ।

 स्यादेतत्-अवि कलरूप एवं भावो हेतुभ्यो जायते । भेदाख्यं रूपं प्रतियोग्यपेक्षम्, नानपेक्षं कदाचिदिति तस्य तद्वि- धत्वात् तेन तद्विधेनैव सह जायत इति न विकलरूपप्रादुर्भावः । तत्रोच्यते-भवतु तद्विधस्य प्रादुर्भावः; अपेक्षार्थस्तु वक्तव्यः, यस्य. हि यत्र किंचिदायतते, तत् तदपेक्षत इत्युच्यते ; नान्यो "विशेषः सापेक्ष निरपेक्षयोर्व्यपस्थापको निरूप्यते । तत्र न तावदुत्पत्तिः प्रतियोगिन्यायतते, खहेतुभ्योऽविकलस्योत्पत्तेः; नार्थक्रिया, तदसंनिधानेऽपि तस्यार्यक्रियादर्श- नात् । प्रतीतिश्चेत्-तथा हि, नानपेक्ष्य प्रतियोगिनं भेदः प्रतीयत इति- न तर्हि भेदस्वभावः सापेक्षः ; तस्मिन्नवस्थिते वस्तुस्थित्युत्तरकाला प्रतीति- रान्तरमेव प्रतियोगिनमपेक्षते; यथा व्यवस्थितानपेक्षखमावा रूपादयः चक्षुराधपेक्षायां प्रतीतौ न सापेक्षस्वभावाः कथ्यन्ते । इतरेतराश्रयाच न प्रतीतिरपि परस्परायत्तावकल्पते । न च वस्तुमात्रादनवगृहीतमेदाझेद- सिद्धिः, एकस्मिन्नपि तत्प्रसङ्गात् । तस्मात् 'पौरुषेयीमपेक्षा न वस्त्वनुव- तते । अतो न वस्तुस्वभाव इत्यर्थः ।


'पौरुषेय्यपेक्षा-0; पौ रुषेय्यपेक्षा:-B. क्षत्वयोः- , , 4 10omits स्व. Bomits यथं. 30omita वस्तु. 5 कल्परूप-B. हेतुः-

-A.

-A and B. 6 तां-A.