पृष्ठम्:ब्रह्मतत्त्वप्रकाशिका नाम ब्रह्मसूत्रवृत्तिः.djvu/८८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

ब्रह्मसूत्रवृत्तौ ब्रह्मतत्त्वप्रकाशिकायां

  • ९ अन्तराविज्ञानाधिकरणम्

भूतोत्पत्तिलयक्रमविचारस्य यत् प्रयोजनं तदेव करणोत्पत्तिक्रमविचारस्ये- त्येक प्रयोजनकत्वसङ्गत्येदमाह- अन्तरा विज्ञानमनसी क्रमेण तलिङ्गादिति चेन्नाविशेषात् ॥ १५ ॥ पूर्वोक्तक्रमः करणोत्पत्तिक्रमेण विरुध्यते न वेति सन्देहे, विज्ञायतेऽनेनेति विज्ञानशब्देन बुद्धिरिन्द्रियाणि च गृह्यन्ते, संशयात्मकमन्तःकरणं मनः, ता. नीन्द्रियबुद्धिमनांसि भूतानामात्मनश्चान्तरा अन्तराले तल्लिङ्गात् तस्याः सृष्टेर्गमकाद् ‘एतस्माज्जायते प्राण' (मु. २-१-३) इत्यादिवाक्यादनुक्रम्यन्ते । तथा चात्मनः सका- शादिन्द्रियबुद्धिमनांसि तेभ्यश्च भूतानत्यनेन क्रमेण विरुध्यत इति चेदिति पूर्वः पक्षः । सिद्धान्तस्तु नाविशेषाद् इन्द्रियबुद्धिमनसां भौतिकत्वेन भूतोत्पत्तिक्रमादि- न्द्रियाद्युत्पत्तिक्रमस्या विशेषाद् येन क्रमेण भूतोत्पत्तिस्तेनैव क्रमेण भौतिकोत्पत्तिरि- त्यतो न विरुध्यत इत्यर्थः । 'एतस्माज्जायते प्राण' इत्यादिश्रुतिश्च सर्वेषामात्मनः सकाशादुत्पत्तिमात्रं ब्रूते न क्रममिति भावः । तस्मान्न केनापि वाक्येन भूतसृष्टि- वाक्यानां विरोध इति सिद्धम् ॥ १५ ॥ १

  • १० चराचरव्यपाश्रयाधिकरणम्

७४ इत्थं पूर्वाधिकरणेषु तत्पदार्थब्रह्मसिद्ध्यै भूतकरणोत्पत्तिश्रुतिविरोधो निर- स्तः । सम्प्रत्यापादसमाप्तेस्त्वंपदार्थशुच्यै जीवविषयश्रुतिविरोधो निरस्यते । तत्र यथा पूर्व करणोत्पत्तिश्रुत्या भूतश्रुतेरविरोध इत्युक्तं न तथेह जीबोत्पत्तिशास्त्रेणावि- रोध: तदुत्पत्तौ भूतोत्पत्तिक्रमभङ्गस्यावश्यकत्वादिति प्रत्युदाहरणावान्तरसङ्गत्येद- माह - चराचरव्यपाश्रयस्तु स्यात् तद्व्यपदेशो भाक्तस्तद्भाव भावित्वात् ॥ १६ ॥ अत्र 'न जीवो म्रियते' (छा. ६-११-३) इति जीवनित्यत्वशास्त्रस्य जी- वोत्पत्तिनाश निमित्तकजातेष्ट्यादिशात्रेण विरोधोऽस्ति न वेति सन्देहे देवदत्तो जातो मृतश्चेति लौकिकव्यपदेशानुगृहीतजातकर्मादिशास्त्रेण विरोधोऽस्तीति पूर्वः पक्षः । सिद्धान्तस्तु योऽयं लौकिकस्तद्व्यपदेशस्तयोर्जन्ममरणयोर्व्यपदेशः स चराचरव्य- पाश्रयः स्थावरजङ्गमदेहविषयो मुख्यः जीवे तु भाक्तः गौणः स्यात्, कुतः, १. 'त्पत्तिक' इति खपुस्तके पाठः, जन्म-