पृष्ठम्:ब्रह्मतत्त्वप्रकाशिका नाम ब्रह्मसूत्रवृत्तिः.djvu/८५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

द्वितीयाध्याये तृतायः पादः । इति । यत्तु सामग्रयभावादिति तन्न । श्रौतस्य ब्रह्मण एव वियत्सामग्रीत्वात् ॥ ६॥ यच्च नित्यत्वानुमानाच्चेति, तच्चानुमानेनैव दूषयति — यावद्विकारं तु विभागो लोकवत् ॥ ७ ॥ तुशब्द आकाशोत्पत्त्यसम्भवशङ्काव्यावृत्त्यर्थः । यतो यावद्विकारजातं वि भागो दृश्यते न त्वविकारे ब्रह्माणि लोके घटादेर्विकारस्यैव विभक्तत्वदर्शनात् । तथा चायं प्रयोगः– आकाशादिः पराधीनसत्ताकः स्वसमानसत्ताकविभागवत्त्वाद् घट- बदिति । ततश्च परोक्तविभुत्वहेतोरसिद्धिर्द्रष्टव्या । अमृतशब्दप्रयोगस्त्वापेक्षिकः । अत आकाशस्य ब्रह्मकार्यत्वं सिद्धम् ॥ ७ ॥

  • २ मातरिश्वाधिकरणम् *

- उक्तन्यायमन्यत्रातिदिशति- -- एतेन मातरिश्वा व्याख्यातः ॥ ८ ॥ अतिदेशत्वान्न पृथक् सङ्गत्यपेक्षा । अत्र वायोरुत्पत्तिरस्ति न वेति सन्देहे छान्दोग्ये वायोरुत्पात्तर्न श्रूयते, तैत्तिरीयके च श्रूयते । तथा च पूर्ववद् द्वयोर्वाक्ययोर्वि- रोधपाप्तौ तत्परिहारायोत्पत्तिर्गौणी वाच्या 'सैषानस्तमिता देवता यद्वायुः' (बृ. १-१- २२) इति लयप्रतिषेधाच्च न वायोरुत्पत्तिरिति पूर्वः पक्षः । सिद्धान्तस्तु एतेनाका- शस्योत्पत्तिमत्त्वव्याख्यानेन वायुरप्याकाशावच्छिन्नब्रह्मजन्यत्वेन व्याख्यातः । लय- प्रतिषेधस्त्वापेक्षिकः, अन्यथा प्रतिज्ञाहान्यादेः समानत्वादिति भावः ॥ ८ ॥ ३ असम्भवाधिकरणम् * पूर्वमसम्भावितोत्पत्तिकयोरपि वियत्पवनयोरुत्पात्तरस्तीति श्रुतिबलादुक्तम् । तद्वद् ब्रह्मान्तराद् ब्रह्मोत्पत्तिः श्रुतिबलादस्त्विति दृष्टान्तसङ्गत्येदमाह -- असम्भवस्तु सतोऽनुपपत्तेः ॥ ९ ॥ अत्र 'न चास्य कश्चिज्जनिता' (श्वे. ६. ९) इत्यादिकानां ब्रह्मणो नित्य- त्वप्रतिपादिकानां श्रुतीनां 'त्वं जातो भवसि विश्वतोमुख' (श्वे. ४. ३.) इति श्रुत्या विरोधोऽस्ति न वेति सन्देहे विरोध इति पूर्वः पक्षः । सिद्धान्तस्तु सतः सदात्मकस्य ब्रह्मण उत्पत्त्यसम्भवः कुतः, अनुपपत्तेः सत्सामान्यात् सत्सामा- न्यस्योत्पत्त्यनुपपत्तेः । विशेषस्यैव हि घटादेर्मृत्सामान्यजन्मत्वदर्शनात् । जन्मनु तिश्चौपाधिकविषया । अतो नित्यं ब्रह्मेत्यविरोधः ॥ ९ ॥