पृष्ठम्:ब्रह्मतत्त्वप्रकाशिका नाम ब्रह्मसूत्रवृत्तिः.djvu/८१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

द्वितीयाध्याये द्वितीयः पाद: । ६७ दिदोषप्रसङ्गादसामञ्जस्यं स्यात् प्रवृत्ते रागादिपूर्वकत्वेन लोके दृष्टत्वाद् दृष्टा- नुसारित्वात् कल्पनायाः । अस्माकन्तु श्रुत्यनुसारित्वादनिर्वचनीयवादित्वाच्च न दोष इति भावः ॥३७ ॥ अपि च- सम्बन्धानुपपत्तेश्च ॥ ३८ ॥ प्रेर्यप्रधानादिभिः प्रेरकस्येश्वरस्य सम्बन्धो वाच्यः असम्बद्धस्य प्रेरकत्वा- योगात् । न च सम्बन्धः सम्भवति, निरवयवत्वाद् युतसिद्धत्वाच्च संयोगसमवाय- योरनुपपत्तेरित्यर्थः । सिद्धान्ते त्वविद्याप्रेरकत्वं कल्पिततादात्म्येनोपपद्यत इति भावः ॥ ३८ ॥ किञ्च- अधिष्ठानानुपपत्तेश्च ॥ ३९ ॥ लोके कुलालस्य मृदादिप्रेरकत्वं दृष्टम् । न हीश्वरस्य प्रधानादिप्रेरकत्वं सम्भ- बति, प्रधानस्य रूपादिहीनत्वेन तद्विषयकाधिष्ठानस्य प्रेरणाया अनुपपत्तेरित्यर्थः । सिद्धान्ते तु न दृष्टापेक्षा श्रुत्येकशरणत्वादिति भावः ॥ ३९ ॥ एतद्विवान्तरेणाक्षिप्य परिहरति - करणवच्चेन्न भोगादिभ्यः ॥ ४० ॥ करणानीन्द्रियाण्य प्रत्यक्षाण्यपि यथा जीवेन प्रेर्यन्त एवं प्रधानमप्रत्यक्षमपी- श्वरेण प्रेर्यत इति चेन्न, कुतः, भोगादिभ्यो दोषेभ्यो जीवस्य भोगार्थमिन्द्रियप्रेर- कत्ववदीश्वरस्य प्रेरकत्वे तद्भोगादयः प्रसज्येरन्नित्यर्थः ॥ ४० ॥ किञ्च- अन्तवत्त्वमसर्वज्ञता वा ॥ ४१ ॥ प्रधानजीवेश्वराणां या सङ्ख्या यच्च परिमाणं तदुभयमीश्वरेण परि च्छिद्यते वा न वा । आद्ये परिच्छिन्नसङ्ख्यापरिमाणवत्त्वात् त्रयाणां घटवदन्त- वत्त्वं विनाशित्वं स्यात् । द्वितीय ईश्वरस्यासर्वज्ञत्वं स्याद् । अतो माहेश्वरराद्धान्तो भ्रान्तिमूल एवेति सिद्धम् ॥ ४१ ॥

  • ८ पाञ्चरात्राधिकरणम् *

एवं केवलाधिष्ठातैवेश्वर इति वेदासङ्गतमते निरस्ते निमित्तं प्रकृति-