पृष्ठम्:ब्रह्मतत्त्वप्रकाशिका नाम ब्रह्मसूत्रवृत्तिः.djvu/६७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

3 ५३ द्वितीयाध्याये प्रथमः पादः । देवादिवदपि लोके ॥ २५ ॥ लोक्यतेऽनेनेति लोकः शब्दो मन्त्रार्थवादेतिहासादिः । तस्मिन् यथा देवाः पितर ऋषय इत्येवमादयश्चेतना स्वसिद्धिसामर्थ्यात् साधनान्तरं बाह्यमनपेक्ष्य सङ्कल्पमात्रेणैव नानाविधकार्यकर्त्तार उपलभ्यन्ते, तद्वद् ब्रह्माप्यसहायमेव जग- दुपादानं कर्तृ चेति तद्वादिसमन्वयो न विरुध्यत इति सिद्धम् ॥ २५ ॥

  • ९ कृत्स्नप्रसक्त्यधिकरणम्

पूर्व क्षीरादिदृष्टान्तकथनेन ब्रह्मणः परिणामित्व भ्रमोत्पत्तेस्तन्निरसनमनेन क्रियत इाते कार्यकारणभावसङ्गत्येदमाह- कृत्स्नप्रसक्तिर्निरवयवत्वशब्दकोपो वा ॥ २६ ॥ पूर्वाधिकरणस्य भ्रमोत्पादक ( त्वमेव तस्य ? ) कार्यत्वमिति बोध्यम् । फलं तु पूर्ववत् । सावयवस्यैव नानाकारेण परिणाम इति न्यायेन निरवयवत्वाद् ब्रह्मणो जगत्सर्ग ब्रुवन् समन्वयो विरुध्यते न वेति सन्देहे पूर्व: पक्षः । सिद्धान्ती प्रष्ट- व्यः किं ब्रह्म निरवयवं परिणमते सावयवं वा । आद्ये कृत्स्नस्य ब्रह्मणः कार्या- कारेण परिणामप्रसक्तिः। ततश्च कार्यातिरिक्तं ब्रह्म न स्यात् । द्वितीये कृत्स्नप्रसक्ति- र्नास्ति एकांशपरिणामेऽप्यपरांशस्थितिसम्भवात् । तथापि 'निष्कल' मित्यादिनिरव- यवत्वशब्दकोपः । उभयपक्षेऽप्यनित्यत्वप्रसङ्ग इति ब्रह्मण उपादानत्ववादी सम- न्वयो विरुध्यत इति ॥ २६ ॥ सिद्धान्तस्तु- श्रुतेस्तु शब्दमूलत्वात् ॥ २७ ॥ तुः पूर्वपक्षनिरासार्थः । न तावत्कृत्स्नप्रसक्तिः, कुतः, श्रुतेः ब्रह्मणो जगदुपा- दानत्वश्रवणाद् 'तावानस्य महिमा' (छा. ३-१२-६) इत्यादौ कार्यव्यतिरेकेण सत्ताश्रवणात् । एवञ्च विवर्त्तवादः श्रुत्यैव स्कुटीकृतः । न हि परिणामवादे कार्य- व्यतिरेकेण सत्ता समस्ति । अतः कार्यातिरेकेण ब्रह्मणोऽवस्थानश्रुतेर्मोक्तदोषाव- काशः । ननूक्तयुक्तिबाधितत्वाच्छुतिर्वा कथं कार्यातिरेकेण ब्रह्मणः सत्तां बोधयेदि- त्यत आह शब्दमूलत्वाद् ब्रह्मणः शब्दैकप्रमाणकत्वाद् यथाशब्दं कार्योपादानत्वं तदतिरेकेण सत्त्वं चाविरुद्धमित्यर्थः ॥ २७ ॥ १. ' त्वादेवैतस्य' इति पठनीयं भाति,