पृष्ठम्:ब्रह्मतत्त्वप्रकाशिका नाम ब्रह्मसूत्रवृत्तिः.djvu/६५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

द्वितीयाध्याये प्रथमः पादः । यत्किञ्चिदेवोपादीयेतेत्येवमाद्याया युक्तेः 'सदेव सोम्येदमग्र आसीद्' (छा ६-२-१) इत्यादौ विद्यमानसच्छब्दान्तराञ्च प्रागुत्पत्तेः कार्यस्य कारणादनन्यत्वं सत्त्वं चेति सिद्धम् ॥ १८ ॥ ननु मृद्धटौ भिन्नौ विलक्षणविषयत्वाद् घटपटवदित्युक्तेर्हेतोर्व्यभिचा- रमाह- पटवच्च ॥ १९ ॥ यथा संवेष्टितप्रसारितपटस्य विलक्षणप्रतीतिविषयत्वेऽपि न भेदस्तथा मृदू - घटयोरित्यर्थः ॥ १९ ॥ ननु कार्यमुपादानाद्भिनं भिन्नकार्यकरत्वात् सम्मतवदित्युक्तेर्हेतोर्व्यभिचा- रमाह- यथा च प्राणादिः ॥ २० ॥ यथा च प्राणायामादिना निरुद्धः प्राणापानादिर्जीवनमात्रं कार्य निष्पादयति, अनिरुद्धस्त्वाकुञ्चनप्रसारणादिकं कार्य निर्वर्त्तयति, नैतावता प्राणादेर्भेदोऽस्ति । त- स्मात् कार्यकारणयोरनन्यत्वादद्वैतब्रह्मसमन्वये न कश्चिद्विरोध इति सिद्धम् ।। २० ॥

  • ७ इतरव्यपदेशाधिकरणम्

पूर्वे कार्यस्य कारणादनन्यत्वमेकविज्ञानप्रतिज्ञासिद्धये समर्थितम् । तर्हि तेनैव न्यायेन जीवब्रह्मणोरप्यभेदाज्जीवधर्मा हिताकरणादयो ब्रह्मणि प्रसज्येरेन्नित्याक्षेपस- अत्यदमाह-- इतरव्यपदेशाद्धिताकरणादिदोषप्रसक्तिः ॥ २१ ॥ फलन्तु पूर्ववत् । यदि ब्रह्म जगज्जनयेन्न तर्हि स्वानिष्टं जनयेदिति तर्केण जीवाभिन्नं ब्रह्म जगदुपादानमिति ब्रुवन् समन्वयो विरुध्यते न वेति सन्देहे पूर्वः पक्षः इतरव्यपदेशाद् इतरस्य जीवस्य 'तत्त्वमस्या' दिना ब्रह्मत्वव्यपदेशात् । इतर- स्य ब्रह्मणो वा ‘अनेन जीवेनात्मनानुप्रविश्य' (छा. ६-३-२) इत्यादिना शारीर- त्वव्यपदेशाद् ब्रह्मणः स्रष्टृत्वे जीवस्यैव स्रष्टृत्वाद्धिताकरणादिदोषप्रसक्तिः । नञ्- व्यत्यासेनाहितजरामरणादिबहुावधानर्थकरणरूपदोषस्य प्रसक्तिर्ब्रह्मण इत्यतस्तस्या- भ्रान्तचेतनत्वेनानिष्टजगज्जनकत्वायोगादुक्तसमन्वयो विरुध्यत इत्यर्थः ॥ २१ ॥ एवं पूर्वपक्षेद्धान्तः - 23832