पृष्ठम्:ब्रह्मतत्त्वप्रकाशिका नाम ब्रह्मसूत्रवृत्तिः.djvu/४२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

ब्रह्मसूत्रवृत्तौ ब्रह्मतत्त्वप्रकाशिकायां प्रसिद्धेश्च ॥ १७ ॥ दहराकाशस्यापि परमात्मन्येव प्रसिद्धेर्लोकरूढ्यपेक्षया 'अकाशो वै नाम नामरूपयोर्निर्वहिता' (छा८-१४) इत्यादिश्रौतरूढेर्बलीयस्त्वाद् दहराकाशः परमा- त्मैव न भूताकाश इति सिद्धम् ॥ १७ ॥ २८ ननु तर्हि जीवोऽस्त्वित्याशङ्कयाह - - इतरपरामर्शात् स इति चेन्नासम्भवात् ॥ १८ ॥ 'एष सम्प्रसादः' (छा ८- ३-४) इति सम्प्रसादशब्देनेतरस्याप्यस्मिन् प्रक- रणे परामर्शात् स जीवो दहराकाशोऽस्त्विति चेन्न असम्भवाद् जीवे आकाशोप- मेयत्वापहृतपाप्मत्वादीनामसम्भवादित्यर्थः ॥ १८ ॥ इत्थमभिहितासम्भवस्यासिद्धिमाशङ्खच उत्तराच्चेदाविर्भूतस्वरूपस्तु ॥ १९ ॥ परिहरति — उत्तराद् ‘य एषोऽक्षिणि पुरुषो दृश्यते' (छा ८-७-४) इत्यादिप्रजापतिवाक्या- जाप्रदाद्यवस्थापने जीवेऽपहतपाप्मत्वादिसम्भवाज्जीव एव दहराकाश इति चेदत्राह आविर्भूतस्वरूपस्तु । तुशब्दो जविशङ्काव्यावृत्त्यर्थः । यतस्तत्राप्याविर्भूतं पारमार्थिकं स्वरूपमस्येत्याविर्भूतस्वरूपो जीवो विवक्षितः न तु जीवत्वेन रूपेण 'परञ्ज्योति- रुपसम्पद्य स्वेन रूपेणाभिनिष्पद्यते' (छा ८-३-४) इत्युपसंहारदर्शनात् । अतस्तस्य ब्रह्मत्वेनापहतपाप्मत्वादिसम्भव इति जीवत्वेन तदसम्भवान्न पूर्वसूत्रस्थहेतुरसिद्ध इति भावः ॥ १९ ॥ ननु तर्हि 'सम्प्रसाद' इति जीवपरामर्शो व्यर्थः स्यादित्यत आह - अन्यार्थश्च परामर्शः ॥ २० ॥ जीवपरामर्शः ‘अभिनिष्पद्यते' इत्युपसम्पत्तव्यपरमात्मपर एव न जीवप्रति- पादनार्थ इत्यर्थः ॥ २० ॥ जीवपूर्वपक्षबीजमाशङ्कय परिहरति- अल्पश्रुतेरिति चेत् तदुक्तम् ॥ २१ ॥ 'दहरोऽस्मिन्नन्तराकाश' इत्याकाशस्याल्पत्वश्रवणान्न परमात्मत्वं, किन्तु जीवत्वमिति चेत् तत्र समाधानमुक्तम् 'अर्भकौकस्त्वात्तव्यपदेशाच्च' (ब्र. १-२-७) इत्यत्र । तस्माद्दहराकाशः परमात्मैवोपास्य इति सिद्धम् ॥ २१ ॥