सामग्री पर जाएँ

पृष्ठम्:ब्रह्मतत्त्वप्रकाशिका नाम ब्रह्मसूत्रवृत्तिः.djvu/४०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२६ ब्रह्मसूत्रवृत्तौ ब्रह्मतत्त्वप्रकाशिकायां - बृहदारण्यके (३. ८. ८) गार्गी प्रति याज्ञवल्क्य आह - 'एतद्वै तदक्षरं गार्गि ! ब्राह्मणा अभिवदन्त्यस्थूलम्' इत्यादि । तत्र किमक्षरशब्देन वर्ण उच्यते उत ब्रह्मेति सन्देहे वर्ण इति पूर्वः पक्षः । सिद्धान्तस्तु न क्षरतत्यिक्षरं ब्रह्मैव । कुतः, अम्बरान्तधृतेः 'एतस्मिन्नु खल्वक्षरे गार्ग्याकाश ओतश्च प्रोतश्च' (बृ. ३.८.११) इति पृथिव्यादेराकाशान्तस्य विकारजातस्य धारणादित्यर्थः ॥ १० ॥ नन्वम्बरान्तधारणं प्रधानेऽपि सम्भवतीत्यत आह - - सा च प्रशासनात् ॥ ११ ॥ सा च धृतिः परमेश्वरस्यैव कर्म नान्यस्याचेतनस्य, कुतः, प्रशासनाद्र् 'एतस्य वा अक्षरस्य प्रशासने गार्गि! सूर्याचन्द्रमसौ विधृतौ तिष्ठतः' (बृ. ३. ८. ९) इत्यादिना प्रशासनश्रवणादित्यर्थः ॥ ११ ॥ प्रधानादिनिरासेन ब्रह्मोपादाने हेत्वन्तरमाह- —— अन्यभावव्यावृत्तेश्च ॥ १२ ॥ अन्यस्य प्रधानादेर्भावो धर्मः सोऽन्यभावस्तव्यावृत्तेः । 'तद्वा एतदक्षरं गार्ग्यदृष्टं द्रष्टुश्रुतम्' (वृ. ३-८-११) इत्यादितद्विपरीतधर्मश्रवणान्न प्रधानाद्यक्षरं, ब्रह्मैवेति सिद्धम् ॥ १२ ॥

  • ४ ईक्षतिकर्माधिकरणम् *

पूर्व वर्णे रूढस्याक्षरशब्दस्य जगद्धृतिलक्षणलिङ्गेन ब्रह्मणि न क्षरतीति योगवृत्तिराश्रिता । तद्वदिहापि देहपरिच्छिन्नफलश्रुतिलिङ्गेन परशब्दस्यापेक्षिकपर- त्वविशिष्टहिरण्यगर्भे वृत्तिरस्त्विति दृष्टान्तसङ्गत्येदमाह- ईक्षतिकर्मव्यपदेशात् सः ॥ १३ ॥ अत्र पूर्वपक्षे कार्यब्रह्मोपास्ति: सिद्धान्ते परब्रह्मोपास्तिरिति फलभेदः । प्रश्नोपनिषदि (५-२,५) श्रूयते–'यः पुनरेतं त्रिमात्रेणोमित्येतेनैवाक्षरेण परं पुरुषम- भिघ्यायीत' इति । तत्र ध्येयं वस्तु किं हिरण्यगर्भाख्यमपरं ब्रह्म उत परं ब्रह्मेति संशये अपरमिति पूर्वः पक्षः । सिद्धान्तस्तु स ध्यातव्यः परमात्मैव, कुतः, ईक्षतिकर्मव्यपदेशात् 'परात् परं पुरिशयं पुरुषमीक्षते' इति वाक्यशेषे ध्यात- व्यस्येक्षतिकर्मत्वेन व्यपदेशाद ध्यानेक्षणयोरेक विषयत्वनियमात् । अतः क्रममुक्त्य- र्थमोङ्कारावलम्बनेन ध्यातव्यः परमात्मैवेति समञ्जसम् ॥ १३ ॥