ब्रह्मसूत्रवृत्तौ ब्रह्मतत्त्वप्रकाशिकायां श्रुता उपनिषद् रहस्यविज्ञानं यस्य स तथा । तस्य ब्रह्मविदो या गतिर्देवयाना- ख्या ‘अथोत्तरेण तपसा ब्रह्मचर्येण' (प्रश्न. १-१०) इत्यादिश्रुतौ 'अग्निर्ज्योतिरहःशुक्लः षण्मासा उत्तरायणम्' (गी. ८-२४) इति स्मृतौ च प्रसिद्धा, तस्या गतेरिहापि 'आदित्याच्चन्द्रमसम्' (छा. ४-१५-५) इत्यादावभिधानादक्षिस्थस्य ब्रह्मत्वं निश्ची- यत इत्यर्थः ॥१६॥ इत्थं सिद्धान्तमभिधाय पूर्वपक्षं प्रत्याह- १८ अनवस्थितेरसम्भवाञ्च नेतरः ॥ १७ ॥ उपासकस्य सर्वत्राक्षिण प्रतिबिम्बसम्पादकबिम्बभूतपुरुषान्तरस्यानवस्था- नादसम्भवाच्चामृतत्वादिगुणानां नच्छायात्मादिरितरः । अतः परमात्मैवाक्षिस्थान उपदिश्यत इति सिद्धम् ॥ १७ ॥
- ५ अन्तर्याम्यधिकरणम्
पूर्व 'स्थानादिव्यपदेशाच' इति सूत्रे 'यः पृथिव्यां तिष्ठन्' इत्यन्तर्यामि ब्राह्मणस्थं 'यश्चक्षुषि तिष्ठन्' इत्यादिवाक्यमन्तर्यामिणो ब्रह्मत्वं सिद्धवत्कृत्योदा- हृतम् । तदाक्षिप्य समाधत्त इत्याक्षेपसङ्गत्येदमाह- अन्तर्याम्यधिदैवादिषु तद्धर्मव्यपदेशात् ॥ १८ ॥ अत्र पूर्वपक्षे प्रधानस्य योगिनो जीवस्य वोपास्तिः सिद्धान्ते परमात्मन एवेति फलभेदः । बृहदारण्यके (३-७-३) श्रूयते- 'यः पृथिव्यां तिष्ठन्’ ‘पृथिवीमन्तरो यमयत्येष त आत्मान्तर्याम्यमृत' इत्यादि । तत्रान्तर्यामी प्रधानम् उत त्वणिमादिवि- शिष्टो जीव उताहो परमात्मेति संशये प्रधानजीवाविति पूर्व: पक्षः । सिद्धान्त- स्त्विहाधिदैवादिषु श्रूयमाणोऽन्तर्यामी परमात्मैव । कस्मात् तद्धर्मव्यपदेशात् तस्य परमात्मनो ये धर्माः सर्वान्तर्यामित्वात्मत्वामृतत्वादयोऽसाधारणास्तेषामिह व्यपदेशादित्यर्थः ॥ १८॥ ननु प्रधानमन्त र्याम्यस्त्वित्याशङ्कयाह-- न च स्मार्तमतद्धर्माभिलापात् ॥ १९ ॥ स्मार्त यस्मृतिकल्पितं प्रधानं नान्तर्यामि । कुतः, अतद्धर्माभिलापात् । तच्छब्देन प्रधानमुच्यते । न तद् अतत् प्रधानभिन्नपरमात्मा तस्यैव चेतनस्य ये घर्मा 'अदृष्टो द्रष्टा अश्रुतः श्रोता' (बृ. ३-७-२३) इति वाक्यशेषे श्रूयमाणा अदृष्टत्वादयस्तेषामिहाभिलापाद् अभिधानादित्यर्थः ॥ १९ ॥