प्रथमाध्याये द्वितीयः पादः । स्मृतेश्च ॥ ६ ॥ 'ईश्वरः सर्वभूतानां हृद्देशेऽर्जुन ! तिष्ठति' (गी. १८-६१) इत्यादौं जीव- परमात्मनोर्भेदस्मरणान्न परस्मादन्यो जीव उपास्य इति सिद्धम् । अनयोर्भेदस्तु काल्पनिकः न वास्तव इति रहस्यम् ॥ ६ ॥ अधुना परमात्मन उपास्यत्वमाक्षिप्य परिहरति- अर्भकौकस्त्वात् तद्व्यपदेशाच नेति चेन्न निचाय्यत्वादेवं व्योमवच्च ॥ ७ ॥ अर्भकौकस्त्वादर्भकमल्पकमोकः स्थानं यस्य सोऽर्भकाकास्तस्य भावस्तत्त्वम् । तस्माद् ‘एष आत्मा अन्तर्हृदय' (छा. ३-१४-३) इति परिच्छिन्नहृदयायतनत्वादि- त्यर्थः । किञ्च तद्व्यपदेशाच्च । तस्य स्वशब्देनैवाणयानित्यणीयस्त्वव्यपदेशादाराग्र- मात्रो जीव इहोपास्यः न सर्वगतः परमात्मेति चेन्न, कुतः, निचाय्यत्वादेवम् एवमर्भ- कौकस्त्वाणीयस्त्वादिविशिष्टत्वेन रूपेण परमात्मन इह निचाय्यत्वादुपास्यत्वात् । अतः सर्वगतस्यात्मन उपासनापेक्षयार्भकौकस्त्वादिगुणः । नैतावता सर्वगतत्वहानिः । तत्र दृष्टान्तो व्योमवद् । यथा सर्वगतमपि व्योम सूच्याद्यवच्छेदेनार्भकौकोऽणीयश्च व्यपदिश्यते तद्वद् ब्रह्मापीत्यर्थः ॥ ७ ॥ अधुना परमात्मनः सर्वगतत्वे दोषमाशङ्कय परिहरति- सम्भोगप्राप्तिरिति चेन्न वैशेष्यात् ॥ ८ ॥ व्योमवत् परमात्मनः सर्वगतत्वे चेतनत्वाविशेषाज्जीववत् सुखदुःखानुभव - रूपसंम्भोगप्राप्तिरिति चेन्न वैशेप्यात् । जीवपरमात्मनोभक्तृत्वामोक्तृत्वादिविशे- षान्न तद्भोगेनास्य भोगप्राप्तिः । तस्मान्मनोमयत्वादिगुणकः परमात्मैवोपास्यः, न शारीर इति सुस्थितम् ॥ ८ ॥
- २ अत्तूधिकरणम् *
पूर्व यथा ब्रह्मणो भोक्तृत्वाभाव उक्तस्तथा कर्तृत्वाभाव इह ब्रह्मण इति दृष्टान्तसङ्गत्येदमाह-- अत्ता चराचरग्रहणात् ॥ ९ ॥