पृष्ठम्:ब्रह्मतत्त्वप्रकाशिका नाम ब्रह्मसूत्रवृत्तिः.djvu/२४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

ब्रह्मसूत्रवृत्तौ ब्रह्मतत्त्वप्रकाशिकायां ८ आकाशाधिकरणम् * ननु पूर्वत्राव्यभिचरितापहतपाप्मत्वादि ब्रह्मलिङ्गवत्त्वेन रूपवत्त्वादिकमन्यथा नीतं यथा, न तथेह लिङ्गादा काशशब्दश्रुतिरन्यथा नेतुं शक्या, तस्या बलवत्त्वाद् इत्यत आह- --

आकाशस्तलिङ्गात् ॥ २२ ॥ पूर्वेणास्य प्रत्युदाहरणसङ्गतिः । फलं तु पूर्वपक्षे भूताकाशदृष्टयोद्गीथोपास्तिः, सिद्धान्ते ब्रह्मति द्रष्टव्यम् । छान्दोग्ये (१-९- १) श्रूयते - 'अस्य लोकस्य का गतिरित्याकाश इति होवाच' इत्यादि । तत्र किमाकाशशब्देन भूताकाशोऽभि धीयते उत परं ब्रह्मेति संशये भूताकाश इति पूर्वः पक्षः । सिद्धान्तस्तु आकाश- शब्देन ब्रह्मैव गृह्यते । कुतः, तल्लिङ्गात् तस्य ब्रह्मणो यल्लिङ्गं समस्तमहाभूत- सृष्ट्यादिकं तस्यास्मिन् वाक्ये दृष्टत्वात् । यलिङ्गाच्छ्रतिर्बलीयसीति, तन्न, भूय- सीनां ब्रह्मलिङ्गश्रुतीनामनुग्रहायकस्या आकाश श्रुतेर्वाधस्य युक्तत्वात् । अत आका- शशब्दितं ब्रह्मैवात्रोद्गीथ उपास्यमिति सिद्धम् ॥ २२ ॥

आकाश न्यायमन्यन्त्राप्यतिद्विशति- ९ प्राणाधिकरणम् - अत एव प्राणः ॥ २३ ॥ अत्रातिदेशत्वात् पृथक् सङ्गतिर्नापेक्षिता । यद्वा पूर्वमाकाशश्रुतेरव्याभि- चारिब्रह्मलिङ्गाद्वाधो यथा युक्तः, न तथेह प्राणश्रुतेर्वाधो युक्तः संवेशनादिलिङ्ग- स्य माणसाधारणतया ब्रह्माव्यभिचाराभावादिति प्रत्युदाहरणसङ्गतिः । फलन्तु पू- र्वपक्षे प्राणदृष्ट्या प्रस्तावोपास्तिः, सिद्धान्ते तु ब्रह्मदृष्ट्येति । छान्दोग्ये (१-११-४, ५) श्रूयते--‘उद्गीथे प्रस्तोतर्या देवते'ति प्रस्तुत्य 'कतमा सा देवतेति, प्राण इति होवाचे'- त्यादि । तत्र प्राणशब्देन ब्रह्माभिधीयते उत वायुविकार इति सन्देहे वायुविकार इति पूर्वः पक्षः । सिद्धान्तस्तु प्राणशब्देन ब्रह्मैवाभिधीयते । कुतः, अत एव पूर्व- सूत्रोक्त तल्लिङ्गादेव, तस्य ब्रह्मणो यल्लिङ्गं 'प्राणमेवाभिसंविशन्ति' (छा. १-११-५) इत्यादि सर्वभूतसंवेशनादिकं, तस्यास्मिन् वाक्ये दृष्टत्वात् । न च 'प्राणं तर्हि वागप्येति' (श. ब्रा. १०-३-३-६) इत्यादिना वायुविकारेऽपि श्रुतमिति वाच्यम् । तत्रेन्द्रियसंवेशनादेरेव श्रुतत्वात् । अतोऽनन्यथासिद्धब्रह्मलिङ्गात् प्राणशब्दाभिधेयं ब्रह्मैवोपास्यमिति सिद्धम् ॥ २३ ॥

  • १० ज्योतिरधिकरणम् *

पूर्व प्राणवाक्ये ब्रह्मलिङ्गसद्भावाद् ब्रह्मपरता यथा, न तथेह स्ववाक्ये ब्रह्मपरता तदभावादिति प्रत्युदाहरणसङ्गत्येदमाह - ज्योतिश्चरणाभिधानात् ॥ २४ ॥