पृष्ठम्:ब्रह्मतत्त्वप्रकाशिका नाम ब्रह्मसूत्रवृत्तिः.djvu/२२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

ब्रह्मसूत्रवृत्तौ ब्रह्मतत्त्वप्रकाशिकाय इतवानन्दमयो न जीव इत्याह- भेदव्यपदेशाच्च ॥ १७ । 'रसो वै सः । रसं ह्येवायं लब्ध्वानन्दी भवति' (तै. २ - ७) इति लब्धृलब्धव्य- त्वेन जीवानन्दमययोर्भेदेन व्यपदिश्यमानत्वादित्यर्थः ॥ १७ ॥ ननु तर्खानन्दमयशब्देन प्रधानमुच्यतां, तत्राह- कामाच नानुमानापेक्षा ॥ १८ ॥ अनुमीयत इत्यनुमानम् अनुमानैकगम्यं प्रधानम् । तस्य नापेक्षा आनन्द - मयत्वेनात्र न स्वीकारः । कुतः, कामात् तदधिकारे 'सोऽकामयते' ति कामायतृत्वश्र वणादित्यर्थः । अत्र प्रधाननिराकरणं प्रासङ्गिकमिति बोध्यम् ॥ १८ ॥ इतश्च नानन्दमयो जीव इत्याह- अस्मिन्नस्य च तद्योगं शास्ति ॥ १९ ॥ अस्मिन्नानन्दमये प्रकृत आत्मनि प्रबुद्धस्यास्य जीवस्य तद्योगं, तदात्मना योगस्तद्योगस्तद्भावापत्तिर्मुक्तिः, तं 'यदा ह्येवैष एतस्मिन्नदृश्येऽनात्म्येऽनिरुक्ते' (तै. २-७) इत्यादि शास्त्रं शास्ति । तस्मान्नानन्दमयो जीवः, किन्तु परमात्मैवेत्यर्थः ॥ १९ ॥ इदन्त्वेकदेशीयमतम् । भगवत्पादयिमते त्वित्थं सूत्रयोजना - आनन्दमयो- ऽभ्यासात् । ईक्षत्यधिकरणे मुख्येक्षणाद् ब्रह्मनिर्णये गौणप्रायपाठस्यानिश्चायकत्वं यथा, न तथेहाबारत्वावयवत्वयोः पुच्छशब्दलक्षकत्वसाम्यादवयवप्रायपाठस्यानि- श्यायकत्वमस्तीति तेनास्य प्रत्युदाहरणसङ्गतिः । फलं त्वधस्तादनन्तर्हितम् | ‘ब्रह्म- पुच्छं प्रतिष्ठे' त्यत्र किमानन्दमयावयवत्वेन ब्रह्मोच्यते, उत स्वप्रधानत्वेनेति सन्देहेऽव- यवत्वेनेति पूर्वः पक्षः । सिद्धान्तस्तु सौत्रानन्दमयशब्देनान्दमयवाक्यस्थब्रह्मपुच्छ- मित्यत्रत्यब्रह्मशब्द उपलक्ष्यते । स स्वप्रधानब्रह्मपरः कुतः, अभ्यासात् तस्यैव 'अ- सन्नेव स भवति' (तै. २.६.) इति लोके अभ्यस्यमानत्वादित्यर्थः । यत्तु पुच्छ- ब्दस्यावयवपरत्वमिति तत्राह - विकारशब्दान्नेति चेन्न प्राचुर्यात् । विकारशब्दांद- वयवपरपुच्छशब्दात् तत्समानाधिकरणब्रह्मशब्दो न स्वप्रधानब्रह्मपर इति चेन्न, प्राचुर्याद् अवयवप्रायप्रयोगात् पुच्छमित्युच्यते, नावयवविवक्षया । अतः प्रतिष्ठा- समभिव्याहारात् पुच्छशब्दस्याधारपरतया स्वप्रधानत्वेन ब्रह्मोच्यत इत्यर्थः । इतश्च पुच्छशब्दस्याधारपरत्व भित्याह-तद्धेतुव्यपदेशाच्च । तस्य ब्रह्मणः स्वविकारजातं प्रति हेतुत्वेन 'इदं सर्वमसृजत' (तै २-६) इति वाक्ये व्यपदेशादित्यर्थः । इतश्च पुच्छवाक्ये ब्रह्म स्वप्रधानमित्याह - मान्त्रवर्णिकमेव च गीयते । यत् 'सत्यं ज्ञान- मनन्त' मित्यादिमन्त्रवर्णप्रतिपाद्यं ब्रह्म, तदेव 'ब्रह्मपुच्छम्' (ते. २-९-२) इति ब्राह्म- णवाक्ये स्वप्राधान्येन गीयते । मन्त्रब्राह्मणयोरैकार्थ्यादित्यर्थः । ननु पुच्छवाक्ये - 2