पृष्ठम्:ब्रह्मतत्त्वप्रकाशिका नाम ब्रह्मसूत्रवृत्तिः.djvu/२०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

ब्रह्मसूत्रवृत्तौ ब्रह्मतत्त्वप्रकाशिकायां सी'ति श्वेतकेतोश्चेतनस्य तन्निष्ठतां तत्स्वरूपतामुपदिश्य 'अथ सम्पत्स्य' (छा. ६. १४. २) इति प्रारब्धक्षयानन्तरं मोक्षोपदेशात् । अतश्चेतनस्याचेतनानिष्ठत्वानु- पपत्तेः श्रद्धया तद् ध्यायतो मोक्षासम्भवादनर्थप्राप्तेश्चात्मशब्दश्चेतनपर इति सिद्धम् ॥ ७ ॥ ननु स्थूलारुन्धतीन्यायेन प्रधानोपदेशद्वारायमात्मोपदेशोऽस्त्वित्याश- ट्र्याह- हेयत्वावचनाच ॥ ८ ॥ यद्यनात्मैव प्रधानं सच्छब्दवाच्यं 'स आत्मा तत्त्वमसि' इतीहोपदिष्टं स्यात् स तदुपदेशश्रवणादनात्मज्ञतया तन्निष्ठो मा भूदिति मुख्यमात्मानमुपदिदिक्षु शा- स्त्रं तस्य हेयत्वं ब्रूयात्, न तथा ब्रूते । अतो हेयत्वस्यावचनादनभिधानाञ्चकारादे- कविज्ञानेन सर्वविज्ञानोपक्रमविरोधाच्चेत्यर्थः ॥ ८ ॥ इत्थं प्रधानस्यात्मोपदेशद्वारा आत्मत्वगौणेक्षितृत्व निरासेन जगत्कारणत्वं निरस्याधुना स्वतन्त्रैर्हेतुभिस्तदेव निरसितुं सूत्रत्रयमाह - स्वाप्ययात् ॥ ९ ॥ स्वस्मिन् प्रकृते सच्छब्दशब्दिते चिदात्माने अप्ययात् 'सता सोम्य तदा सम्पन्नो भवति' (छा. ६.८.१) इति लयश्रवणाद् अपिपूर्वस्यैतेर्लयार्थकत्वात् । अतो यस्मिन् सर्वेषां जीवानां सुषुप्तावुपाधिकृतविशेषाभावादप्ययस्त चेतनं सच्छब्दवाच्यं ब्रह्मैव जगत्कारणं, न प्रधानमित्यर्थः ॥ ९ ॥ गतिसामान्यात् ॥ १० ॥ गतेः सर्वेषु ‘आत्मन आकाशः सम्भूतः' (तै. २. १) इत्यादिवेदान्तेषु चेत- नकारणत्वावगतेः समानत्वान्नाचेतनं प्रधानं कारणमित्यर्थः ॥ १० ॥ श्रुतत्वाच ॥ ११ ॥ श्रूयते हि श्वेताश्वतरोपनिषदि (६. ९.) सर्वज्ञमीश्वरं प्रकृत्य ‘स का रणं कारणाधिपाधिपो नचास्य कश्चिजनिता न चाधिप' इति । तस्मात् सर्वज्ञं ब्रह्म जगतः कारणं नाचेतनं प्रधानमन्यच्चेति सिद्धम् ॥ ११ ॥

६ आनन्दमयाधिकरणम् इत्थं सर्वेषां वेदान्तानां सविशेषनिर्विशेषब्रह्मपराणामुपास्तिविधिद्वारा सा- क्षाच निर्विशेषब्रह्मपरत्वे सिद्धेऽप्यधुना निर्विशेषवाक्यविचारात्मकमिदमधिकरण- मारभते-