पृष्ठम्:ब्रह्मतत्त्वप्रकाशिका नाम ब्रह्मसूत्रवृत्तिः.djvu/१९८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

ब्रह्मसूत्रवृत्तौ ब्रह्मतत्त्वप्रकाशिकायां यज्ज्ञानाज्जीवतो मुक्तिरुत्क्रान्तिर्गतिरुत्तरा । ब्रह्मप्राप्तिः प्रत्यपादि तदस्मि ब्रह्म चिद्धनम् || अस्मिन् पादे सप्ताधिकरणानि । सूत्राणि द्वाविंशतिः । अस्मिन् फलाध्याये अष्टात्रिंशदधिकरणानि । सूत्राण्यष्टसप्ततिः । अस्यां शारीरकमीमांसायामधिकरणानि (१९९) एकाधिकनवत्युत्तरशतम् । सूत्राणि (५५५) पञ्चपञ्चाशदधिकपञ्चशतम् || १८४ यस्यापाङ्गनिरीक्षणाद् भवरतिं भीतिप्रदामुज्जहत् त्रय्यन्तार्थविमर्शनाद् गतमहामायोऽभवं सन्ततम् । तं शुद्धाद्वयबुद्धमुक्तमनघं कारुण्यपूर्ण शिवं पूर्णानन्दमहाप्रभावमतुलं वन्दे गुरुं शाश्वतम् ॥ जड: काहं बालः क च गहनवेदान्तसरणि- स्तथाप्याम्नायार्थ परमशिवयोगीन्द्रकृपया । विजानन् व्याख्यानं व्यरचयमहं वेदशिरस- स्तदेतत् क्षन्तव्यं मयि सदयदृष्ट्या बुधजनैः ॥ इति श्रीमत्परमहंस परिव्राजकाचार्य श्री परमशिवेन्द्रसरस्वती- पादाब्जसेवापरायणेन श्रीसदाशिवेन्द्रसरस्वत्या विरचितायां ब्रह्मसूत्रवृत्तौ ब्रह्मतत्त्वप्रकाशिकायां चतुर्थाध्यायस्य चतुर्थः पादः । समाप्तश्च फलाध्यायः । समाप्ता शारीरकमीमांसा |