• चतुर्थाध्याये प्रथमः पादः । चैकेषां शाखिनाम् । तयोर्विनियोग एष उक्तः । काम्यनिषिद्धकर्मणोविद्यां प्रत्यन- ङ्गत्वे सम्प्रतिपत्तिरुभयोर्जेमिनिबादरायणयोरिति ॥ १७ ॥
- १३ यदेवाधिकरणम्
पूर्वोक्तनित्यादिकं विषयमुपजीव्य किञ्चिद्विचार्यत इत्येक विषयत्वसङ्गत्ये- दमाह - यदेव विद्ययेति हि ॥ १८ ॥ अत्र पूर्वपक्षे केवलस्य नित्यादेज्ञानहेतुत्वासिद्धिः, सिद्धान्ते तत्सद्धिरिति फलभेदः । किं नित्यादिकमङ्गाश्रितोपास्तिसहितमेवानुष्ठेयमिति नियमः किं वात- त्साहितं केवलं वेत्यनियम इति सन्देहे नियम इति पूर्वः पक्षः । सिद्धान्तस्तु अनि यम एव युक्तः । तथा हि ‘यदेव विद्यया करोति' 'तदेव वीर्यवत्तरं भवति' (छा. १-१-१०) इति श्रुतिर्विद्यासहितस्य कर्मणो वीर्यवत्तरत्वं ब्रुवती विद्याहीनस्य कर्म- णो वीर्यवत्त्वं दर्शयति । तच्च केवलस्य कर्मणो ज्ञानहेतुत्वे युक्तं स्यादित्यर्थः ॥ १८ ॥
- १४ भोगाधिकरणम् *
पूर्वमनारब्धकर्मणः क्षयोक्तावारब्धस्य कथं क्षय इत्याकाङ्क्षायामस्योत्था - नादुत्थाप्योत्थापकत्वलक्षणसङ्गत्येदमाह -- भोगेन त्वितरे क्षपयित्वा सम्पद्यते ॥ १९ ॥ अत्र पूर्वपक्षे विदेहकैवल्यासिद्धिः, सिद्धान्तं तसिद्धिरिति फलभेदः । तत्त्वविदत्र विषयः । स किं प्रारब्धक्षयानन्तरं संसरति उत नेति सन्देहे देहपा- तात् पूर्वे संसारानुवृत्तिवद् देहपातानन्तरमपि ब्रह्मवित् संसरतीत्यनारब्धाधिकरण - दृष्टान्तेन पूर्वः पक्षः । सिद्धान्तस्तु इतरे त्वारब्धपुण्यपापे भोगेन क्षपयित्वा विद्वान् सम्पद्यते । ‘अथ सम्पत्स्ये' (छा. ६-१४-२) 'ब्रह्मैव सन् ब्रह्माप्येति' (बृ. ४-४- ६) इति श्रुतिभ्यो देहपातात् पूर्वं प्रारब्धकर्मणः सत्त्वात् कुलालचक्रभ्रमणन्यायेन मिथ्याज्ञानरूपनिमित्तनाशेऽप्यनुवृत्तिर्युक्ता | तद्भोगानन्तरं कस्यचिदपि कर्मणोऽभा- वान्न संसारानुवृत्तिः । तस्माद् भोगेन प्रारब्धकर्मनाशानन्तरं विद्वान् स्वरूपानन्दा- त्मनावस्थानलक्षणं कैवल्यं लभत इत्यतिशोभनम् ॥ १९ ॥ अस्मिन् पादे चतुर्दशाधिकरणानि, एकोनविंशतिः सूत्राणि ॥ इति ब्रह्मसूत्रवृत्तौ ब्रह्मतत्त्वप्रकाशिकायां चतुर्थाध्यायस्य प्रथमः पादः ।