पृष्ठम्:ब्रह्मतत्त्वप्रकाशिका नाम ब्रह्मसूत्रवृत्तिः.djvu/१७३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

चतुर्थाध्याये प्रथमः पादः । शेषणत्वनियम इति दृष्टान्तसङ्गत्येदमाह - आदित्यादिमतयश्चाङ्ग उपपत्तेः ॥ ६ ॥ अत्र पूर्वोत्तरपक्षयोस्तत्तत्पक्षसिद्धिरेव फलमिति द्रष्टव्यम् । 'य एवास तपति तमुद्गीथमुपासीत' (छा. १-३-१) इत्यादीन्यङ्गाश्रितोपासनानि श्रूयन्ते । तत्र किमादित्यादिषूद्गीथादिदृष्टि: कर्तव्या, उतोद्गीथादिष्वादित्यादिदृष्टिरिति विश उद्गीथादिदृष्टिरिति पूर्वः पक्षः । सिद्धान्तस्तु उद्गीथादिषु कर्माङ्गेष्वादित्यादिमतय एव कर्तव्याः । कुतः, कर्मसमृद्धिरूपफलोपपत्तेः, यथा प्रोक्षणादीनां त्रीह्यादिषु संस्कृतेषु प्रकृतकर्मणोऽपूर्वमुत्पद्यते तथा कर्माङ्गाद्गीथादिष्वादित्यादिमतिभिः संस्कृ- तेषु प्रकृतकर्मणः फलाधिक्यलक्षणा समृद्धिरुपपद्यत इत्यर्थः । आदित्यादिषूद्गी- थादिदृष्टिपक्षे यथोक्तफलसन्निकर्षासिद्धेरुद्गीथादीनामुत्कर्षासिद्धिरित्यभिसन्धिः ॥६॥ ६ आसीनाधिकरणम् * पूर्व कर्माङ्गाश्रितोपासनानामासननियमानपेक्षाणामनुष्ठानप्रकार उक्तः । तद्वदङ्गानाश्रितोपासनेप्वप्यनियम इति दृष्टान्तसङ्गत्येदमाह - आसीनः सम्भवात् ॥ ७ ॥ अत्र पूर्वपक्षे आसनाभ्यासासिद्धिः, सिद्धान्ते तत्सिद्धिरितिफलभेदः । अत्र कर्माङ्गानाश्रितान्युपासनानि किं तिष्ठन्नासीनः शयानो वा कुर्यादित्यनियमः, उतासीन एवेति नियम इति विशये अनियम इति पूर्वः पक्षः । सिद्धान्तस्तु आसीन एवोपासनानि कुर्वीत । कुतः, गमनादीनां चित्ताविक्षेपकरतया आसीनस्यैवोपास- नानां सम्भवादित्यर्थः ॥ ७ ॥ ध्यानाच ॥ ८ ॥ उपासनानां ध्यायत्यर्थध्यानरूपत्वाद् ध्यायतेश्चासनेषु बकादिष्वेकविषय- दृष्टिषु प्रयोगादासीन एवोपासीतेत्यर्थः ॥ ८ ॥ अचलत्वं चापेक्ष्य ॥ ९॥ 'ध्यायतीव पृथिवी' (छा. ७-६-१) इत्यत्र पृथिव्या अचलत्वमपेक्ष्य ध्यानोपचारो दृष्टः, तस्मादपि लिङ्गादासीन एवोपासीतेत्यर्थः ॥ ९ ॥ १. 'किमासी' क. पाठः,