पृष्ठम्:ब्रह्मतत्त्वप्रकाशिका नाम ब्रह्मसूत्रवृत्तिः.djvu/१६७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

तृतीयाध्याये चतुर्थः पादः । बहिस्तूभयथापि स्मृतेराचाराञ्च ॥ ४३ ॥ अत्र पूर्वपक्षे 'आरूढैपतितमि ल्यादिस्मृतिविरोधः, सिद्धान्ते तदानुगुण्य- मिति फलभेदः । कृतप्रायश्चित्तेन सह कृतश्रवणादिकं विद्यासाधनं न वेति सन्देहे विद्यासाधनामति पूर्वः पक्षः । सिद्धान्तस्तु ऊर्ध्वरेतसामाश्रमात् प्रच्युतिर्महापात- कमुपपातकं वास्तु । उभयथापि ते कृतप्रायश्चित्ता अपि शिष्टैर्बहिष्कार्याः, 'प्राय- श्चित्तं न पश्यामि’, ‘आरूढेपतितं विप्रं दृष्ट्वा चान्द्रायणं चरेदिति निन्दास्मृतेः शिष्टाचाराच्च । अतः प्रायश्चित्तेन परलोकशुद्धेनापि तेन सह कृतश्रवणादिकं न विद्या साधनमिति सिद्धम् ॥ ४३ ॥

१९३ १३ स्वाम्यधिकरणम् * पूर्वं यथा यः कृतप्रायश्चित्तः स संव्यवहार्य इत्युत्सर्गस्य निन्दातिशय- स्मृत्या नैष्ठिकादिषु बाध इत्यभाणि, तथा यो यदङ्गकर्ता स तदाश्रितस्य कर्तेत्यु- त्सर्गस्य कर्तुः फलश्रुत्या बाधो भवत्विति दृष्टान्तसङ्गत्येदमाह - स्वामिनः फलश्रुतेरित्यात्रेयः ॥ ४४ ॥ अत्र पूर्वपक्षे कर्तृत्वभोक्तृत्वयोरैकाधिकरण्यम्, सिद्धान्त ऋत्विजः कर्तृत्व स्वाम्यधीनमिति परम्परयैकाधिकरण्यमिति फलभेदः । तत्र किमङ्गाश्रितोपासनानि यजमानकर्तृकाणि आहोस्विहत्विकर्तृकाणीति सन्देहे स्वामिनो यजमानस्यैवाङ्गाश्रि- तोपासनेषु कर्तृत्वमित्यात्रेय आचार्यो मन्यते । कुतः, फलश्रुतेः कर्माङ्गे पञ्चविध- साम्नि वृष्ट्युपासकस्य 'वर्षति हास्मै' (छा. २-३-२) इत्यादिफलश्रवणात् । अतो यजमानकर्तृकाण्येवेति पूर्वः पक्षः ॥ ४४ ॥ सिद्धान्तस्तु – आविज्यमित्यौडुलोमिस्तस्मै हि परिक्रीयते ॥ ४५ ॥ । अङ्गोपासनमात्र्त्विज्यमृत्विक्कर्तृकमेवेत्यौडुलोमिराचार्यो मन्यते । तस्मै हि साङ्गाय कर्मणे ऋत्विक् परिक्रीयते यजमानेन । तथा च यजमानगामिफलक- मप्यङ्गोपासनं यजमानेन स्वगामिफलकर्मार्थ परिक्रीतविकर्तृकमेव कर्माङ्गप्रणयना- श्रितगोदोहनवदिति न फलश्रुतिविरोधः ॥ ४५ ॥ १. 'ढं प' ख. पाठ: २. 'ढं प' ख. पाठ:.