पृष्ठम्:ब्रह्मतत्त्वप्रकाशिका नाम ब्रह्मसूत्रवृत्तिः.djvu/१५४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

ब्रह्मसूत्रवृत्तौ ब्रह्मतत्वप्रकाशिकायां यहा- गुणसाधारण्यञ्जतेश्च । यदि सर्वेषां कर्मगुणानामुद्दीधादीनां समुच्चित्यानुष्ठानात्मक साधारण्यं न स्यात् तर्हि तदाश्रितोपास्तीनामपि समुच्चित्यानुष्ठानं न स्यात् । न त्वेतदस्ति । प्र- योगवचनेन सर्वाङ्गग्राहिणा तेषां साधारण्यश्रवणात् । ततश्च तदाश्रितोपास्तीनामपि साधारण्यमित्यर्थः ॥ ६४ ॥ एवं पूर्वपक्षे सिद्धान्तः --- न वा तत्सहभावाश्रुतेः ॥ ६५ ॥ बाशब्दस्त्वर्थः पूर्वपक्षनिरासार्थः । नामाश्रितोपात्तीनामङ्गवत् समुच्चयनि- यमः । कुतः, तत्सहभावाश्रुतेः, 'ग्रहं वा गृहीत्वा' इत्यादिना यथाङ्गानां सहभावः श्रूयते तद्वत् तासामुपास्तीनां सहभावस्याश्रुतेः । न चाङ्गतन्त्रत्वादुपास्तीनां समुच्चयनियम इति साम्प्रतम् । अङ्गतन्त्रत्यापि गोदोहनस्यानुष्ठानानियमादिति दिक् ॥ ६५ ॥ दर्शनाच्च ॥ ६६ ॥ ' एवंविद्ध वै ब्रह्मा यज्ञं यजमानं सर्वोश्चविजोऽभिरक्षति' (छा. ४-१७- १०) इति श्रुतावाश्रितोपातीनाम समुच्चयदर्शनादिति शोभनम् ॥ ६६ ॥ अस्मिन् पादे षट्त्रिंशदधिकरणानि | सूत्राणि षट्षष्टिः । इति ब्रह्मसूत्रवृत्तौ ब्रह्मतत्त्वप्रकाशिकायां तृतीयाध्यायस्य तृतीयः पादः । अथ चतुर्थः पादः ।

  • १ पुरुषार्थाधिकरणम्

इत्थं पूर्वत्मिन् पाढे परापरब्रह्मविद्यानां गुणोपसंहारोक्त्या परिमाणमवधा- रितम् । इह तु तासां कर्मानपेक्षाणामेव पुरुषार्थसाधनत्वं निरूपयितुं तासां यज्ञा- दीनि बहिरङ्गाणि शमादीन्यन्तरङ्गाणि च निरूप्यन्त इत्येक विद्याविषयकत्वलक्षण- सङ्गत्यायं चतुर्थः पाद् आरभ्यते । पूर्वपादात्याधिकरणे कर्माङ्गविद्येोक्ता | तत्प्र- सङ्गाद् ब्रह्मज्ञानस्य॰कर्माङ्गत्वमाशङ्कय समाधत्त इति प्रसङ्गसङ्गत्येदमधिकरणमाह-