पृष्ठम्:ब्रह्मतत्त्वप्रकाशिका नाम ब्रह्मसूत्रवृत्तिः.djvu/१५२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

ब्रह्मसूत्रवृत्तौ ब्रह्मतत्त्वप्रकाशिकायां

  • ३३ नानाशब्दाधिकरणम्

पूर्व यथा व्यस्तोपा स्तिषु विधिश्रुतीनां सत्त्वेऽपि समस्तोपास्तेरेव ज्याय- स्त्वमुक्तं, तथैकोपास्यकोपास्तिषु प्रत्येकं विधीनां सत्त्वेऽपि समस्तोपास्तेरेव ज्याय- स्त्वमिति नास्ति विद्यानां भेद इति दृष्टान्तसङ्गत्येदमाह-- १३८ नाना शब्दादिभेदात् ॥ ५८ ॥ फलं पूर्ववत् | सन्ति सगुणब्रह्मैकवेद्याः शाण्डिल्यादिविद्याः । तथैव मुख्य- प्राणविद्या अपि । ताः किं नाना उताभिन्ना इति सन्देहे अभिन्ना इति पूर्व: पक्षः । सिद्धान्तस्तु विद्या नानैव भिन्ना एव । कुतः, शब्दादिभेदाद् 'वेद' ' उ- पासीत' 'ऋतुं कुर्वीत' इति शब्दभेदाद आदिशब्देनोपास्य गुणभेदाच्चेत्यर्थः ॥ १८ ॥ ३४ विकल्पाधिकरणम्

पूर्वत्र विद्यानानात्वे सिद्धेऽयं विचारः प्रवर्तत इति हेतुहेतुमद्भावस- इत्येदमाह -

विकल्पोऽविशिष्टफलत्वात् ॥ ५९ ॥ अत्र पूर्वपक्षे यथेच्छमनुष्ठानमित्यनियमः, सिद्धान्ते विकल्पेनानुष्ठानमिति नियम इति फलभेदः । याः सगुणब्रह्मविद्या वेद्यसाक्षात्कारेण फलहेतवः, किं ता- सां विकल्पसमुच्चयाभ्यामनुष्ठानमुत विकल्प एवेति संशये नियामकाभावात् स्वे- च्छयैवेति पूर्वः पक्षः । सिद्धान्तस्तु विकल्प एवासां विद्यानां युक्तः। कुतः, अवि- शिष्टफलत्वाद् वेद्यसाक्षात्काराख्याभिन्नफलत्वादित्यर्थः ॥ १९ ॥

३५ काम्याधिकरणम् पूर्वमहङ्ग्रहोपास्तीनां विकल्पेनैवानुष्ठेयत्वमभाणि । तद्वदुपास्तित्वाविशे- षात् प्रतीकोपास्तीनामपि विकल्पेनैवानुष्ठेयत्वं स्यादिति दृष्टान्तसङ्गत्येदमाह- काम्यास्तु यथाकामं समुच्चीयेरन् न वा पूर्वहेत्वभावात् ॥ ६० ॥

अत्र पूर्वपक्षे त्रीह्यादिष्विवानुष्ठाननियमः, सिद्धान्ते फलवशादनियम इति फलभेदः । याश्च प्रतीकोपास्तयो 'नाम ब्रह्मेत्युपासीत' (छा. ७-१-५) इत्यादि- काः, तासु किं विकल्प उत यथाकाममनुष्ठानमिति विशये विकल्प एवेति पूर्वः पक्षः । सिद्धान्तस्तु काम्यास्तु अदृष्टद्वारा फलहेतवो विद्या यथाकामं समुच्चीयेरन्