पृष्ठम्:ब्रह्मतत्त्वप्रकाशिका नाम ब्रह्मसूत्रवृत्तिः.djvu/१५०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

ब्रह्मसूत्रवृत्तौ ब्रह्मतत्त्वप्रकाशिकाय ३० ऐकात्म्याधिकरणम् ननु विद्यायाः पुरुषार्थहेतुत्वमयुक्तं देहातिरिक्तस्य पुरुषस्याभावादित्याक्षेप- सङ्गत्येदमाह---

एक आत्मनः शरीरे भावात् ॥ ५३ ॥ प्रसङ्गादस्य पादसङ्गतिर्बोध्या । फलं तु पूर्वपक्षे देहातिरिक्तात्माभावात् स्वर्गादिशास्त्रवैयर्थ्य, सिद्धान्ते तत्सार्थक्यमिति द्रष्टव्यम् । अत्रात्मा विषयः । स किं देह उत तदतिरिक्त इति संशये तत्रैके लोकायतिकाः शरीरातिरिक्तस्यात्म- नोऽसत्त्वं मन्यमानाः शरीरमेवात्मेत्याचक्षते । कुतः, शरीरे सत्युपलब्धेर्भावात् तद- भावे चाभावादित्यन्वयव्यतिरेकाभ्यां तस्याः शरीरधर्मत्वेनातिरिक्तात्मासिद्धेरिति पूर्वः पक्षः ॥ ५३ ॥ सिद्धान्तस्तु - व्यतिरेकस्तद्भावाभावित्वान्न तूपलब्धिवत् ॥ ५४ ॥ न त्वात्मनः शरीरादव्यतिरेकः, किन्तु व्यतिरेक एव । कुतः, तस्य शरीरस्य मरणावस्थायां भावेऽप्युपलब्धिरूपात्मधर्मस्याभावित्वात्, पतने च तस्य शरीरस्य शरीरान्तरावच्छेदेन तद्धर्मस्य भावित्वान्न शरीरधर्मत्वम् । उपलब्धिवद् । यथा भूतोपलब्धिर्न तद्धर्मस्ततो व्यतिरिच्यते, तथा भौतिकदेहोपलब्धिर्न तद्धर्मस्ततो व्यतिरिच्यते । सैवोपलब्धिरस्माकमात्मेति देहव्यतिरिक्तस्यात्मनः सत्त्वमिति सिद्धम् ॥ १४ ॥

  • ३१ अङ्गावबद्धाधिकरणम् *

पूर्व यथा शरीरात्मनोर्भेदादात्मधर्मस्य शरीरे न सम्भवः, तद्वदेकशाखा- गतोद्गीथाद्यपेक्षया शाखान्तरगतोद्गीथादेः स्वरभेदेन भेदादेकशाखागतोद्गीथादिध- र्माणां शाखान्तरगतोद्गीथादौ न सम्भव इति दृष्टान्तसङ्गत्येदमाह, अङ्गावबद्धास्तु न शाखासु हि प्रतिवेदम् ॥ ५५ ॥ अत्र पूर्वपक्षे अनुष्ठानव्यवस्था, सिद्धान्ते तदव्यवस्थेति फलभेदः । सन्ति कर्माङ्गाश्रिता उपासना उद्गीथावयव ओङ्कारे प्राणदृष्टि, रुद्गीथे पृथिवीदृष्टिः, पञ्चविधे सान्नि पृथिव्यादिदृष्टिरित्येवमाद्याः । ताः किं यत्र शाखायां विहितास्तच्छाखागतोद्गी- थाद्यालम्बना उत सर्वशाखागतोद्गीथाद्यालम्बना इति सन्देहे तच्छाखागतोद्गीथाद्या- १. 'र्गापवर्गादि' खपुस्तके पाठ, २. 'एव त' कपुस्तके पाठ:. ३. 'विशये' खपुस्तके पाठः