पृष्ठम्:ब्रह्मतत्त्वप्रकाशिका नाम ब्रह्मसूत्रवृत्तिः.djvu/१४८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

ब्रह्मसूत्रवृत्तौ ब्रह्मतत्त्वप्रकाशिकार्या अतिदेशाच ॥ १६ ॥ मानसिकामांनां मध्ये 'एकोऽग्निस्तावान् यावानसौ पूर्व' इति पूर्वेणेष्टका- चितेनाग्निना साम्पादिकाग्नीनां सादृश्योपदेशाच्च तच्छेषत्वमित्यर्थः ॥ ४६ ॥ इत्थं पूर्वपक्षे सिद्धान्तयति- विद्यैव तु निर्धारणात् ॥ ४७ ॥ तुः पूर्वपक्षनिरासार्थः । विद्यात्मका एते मनश्चिदादयः स्वतन्त्रा एव, न कर्मानुप्रवेशिनः । कुतः, ‘ते हैते विद्याचित एव' इत्यवधारणादित्यर्थः । एवकार- श्रुत्या कर्मप्रकरणं बाध्यमिति भावः ॥ ४७ ॥ लिङ्गादपि तद्बाध्यमित्याह- दर्शनाच ॥ ४८ ॥ मनश्चिदादीनां स्वातन्त्र्यज्ञापकलिङ्गस्य प्रागुक्तस्य दर्शनाच्चेत्यर्थः ॥ ४८ ॥ वाक्यादपि तद् बाध्यमित्याह- श्रुत्यादिबलीयस्त्वाच्च न बाधः ॥ ४९ ॥ आदिशब्देन लिङ्गवाक्ययोर्ग्रहणम् । श्रुतिलिङ्गे प्राग् दर्शिते । 'विद्यया हैवैत एवंविदश्चिता भवन्ति' इत्येतद्वाक्यं मनश्चिदादीनां स्वातन्त्र्यं बोधयत् प्र- करणं बाधयति । तथा चैतेषां श्रुतिलिङ्गवाक्यानां बलीयस्त्वाद् दुर्बलेन कर्मप्रकर- णेन न मनश्चिदादीनां स्वातन्त्र्यबाध इत्यर्थः । यत्तु लिङ्गस्य स्तुतिपरत्वं तन्न । तस्य विधिप्रत्ययसामीप्याभावादपूर्वार्थविधायकत्वाभावादिति भावः॥ ४९ ॥ इतोऽपि मनश्चिदादीनां स्वातन्त्र्यमित्याह - अनुबन्धादिभ्यः प्रज्ञान्तरपृथक्त्ववद् दृष्टश्च तदुक्तम् ॥ ५० ॥ ‘ते मनसैवाधीयन्त मनसैवाचीयन्त मनसैव ग्रहा अगृह्यन्त' इत्यादिना मनआदिषु वृत्तिषु कर्माज्ञानामनुबन्धात् संपादनादमीनां स्वातन्त्र्यं, कर्माङ्गत्वेऽङ्गा- नां प्रत्यक्षसिद्धत्वेन संपादनवैयर्थ्यात् । आदिशब्देनातिदेशो गृह्यते । यत्त्वयमति - देशः पूर्वपक्षानुकूल इति, तन्न, अग्नित्वसादृश्येनातिदेशस्य सिद्धान्तेऽप्युपपत्तेः । सूत्रे बहुवचनसिद्ध्यर्थं पूर्वोक्तश्रुतिलिङ्गादिकं बोध्यम् । एवञ्चानुबन्धादिभ्यो हेतुभ्यः १. 'एकैक एव तावान्' इति मुद्रितभाष्यादिषु पाठः,