पृष्ठम्:ब्रह्मतत्त्वप्रकाशिका नाम ब्रह्मसूत्रवृत्तिः.djvu/१३६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१२२ ब्रह्मसूत्रवृत्तौ ब्रह्मतत्त्वप्रकाशिकायां पठ्यते-'ब्रह्मज्येष्ठा वीर्या सम्भृतानि ब्रह्मा ज्येष्ठं दिवमातताने ति । तत्र श्रूयमा- •णसम्भृतिकुव्याप्त्यादिकं तदीयोपनिषद्विहितशाण्डिल्यादि ब्रह्मविद्यासूपसंहर्त्तव्यं न वेत सन्देह उपसंहर्तव्यमिति पूर्वः पक्षः । सिद्धान्तस्तु 'वीय सम्भृतानी' ति या वीर्यसम्भृतिः समृद्धिः, या च ' दिवमातताने' ति द्युलोकव्याप्तिः, तयोः समाहारः सम्भृतिद्युव्याप्ति तदपि नोपसंहर्तव्यम् । कुतः, अतश्च अत एव नाम्नोरिव व्यव- स्थापकस्थानविशेषादेव । तस्मात् सम्भृत्यादिगुणविशिष्टमुपासनान्तरं तत्र विधेय- मिति सिद्धम् ॥ २३ ॥ 6

  • १३ पुरुषविद्याधिकरणम्

पूर्वत्रासाधारणगुण प्रत्यभिज्ञानाभावात् सम्भृत्यादिविशिष्टविद्याभेद उक्तः । इह त्वसाधारणमरणावभृथगुणविशिष्टपुरुषयज्ञरूपैक्यप्रत्यभिज्ञानाद् विद्यैक्यमिति प्रत्युदाहरणसङ्गत्येदमाह- पुरुषविद्यायामिव चेतरेषामनाम्नानात् ॥ २४ ॥ अत्र पूर्वपक्षे विद्याभेदादुपसंहारः, सिद्धान्ते तद्भेदादनुपसंहार इति फलभेदः । पैङ्गिरहस्ये 'पुरुषो वाव यज्ञ' इति पुरुषविद्या श्रूयते । तत्राशीर्मन्त्रप्रयोगादयो धर्माश्च श्रूयन्ते | तैत्तिरीयेऽपि (नारा. ८०) 'तस्यैवं विदुषो यज्ञस्यात्मे'त्यादि । तत्रेतरत्रोक्ताः पुरुषयज्ञस्य धर्मास्तैत्तिरीय केऽप्युपसंहर्त्तव्या उत नेति संशये उपसं- हर्तव्या इति पूर्वः पक्षः । सिद्धान्तस्तु पुरुषविद्यायामिव यथा पैङ्गिनां पुरुषविद्यायां पुरुषो यज्ञत्वेन कल्पितः, तदीयमायुस्त्रेधा विभज्य सवनत्वेन कल्पितम् । अशि शिषादीनि च दीक्षादिभावेन कल्पितानि, तथेतरेषां तैत्तिरीयकाणां पुरुषविद्यायां सवनादीनामनाम्नानात् । तेषां हि पुरुषविद्यायां पुरुषसम्बन्धियज्ञोऽनुक्रान्तः । पत्नीयजमानवेदवेदिबर्हिर्यूपादिकं चानुक्रान्तम् । यत्तु मरणावभृथगुणस्य विद्यैक्य- प्रत्यभिज्ञापकत्वमवादि, तन्न, बहुगुणभेद एकस्य प्रत्यभिज्ञापकत्वायोगात् । अतो विद्यैक्याभावान्नोपसंहर्तव्या इति सिद्धम् ॥ २४ ॥

  • १४ वेधाद्यधिकरणम् *

पूर्व यथा पुरुषयज्ञस्यात्मविद्यासन्निधानात् तच्छेषत्वं, तथा मन्त्राणां कर्म- णां च तत्तद्विद्यासन्निधानात् तच्छेषत्वमस्त्विति दृष्टान्तसङ्गत्येदमाह - वेधाद्यर्थभेदात् ॥ २५ ॥