पृष्ठम्:ब्रह्मतत्त्वप्रकाशिका नाम ब्रह्मसूत्रवृत्तिः.djvu/१३४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१२० ब्रह्मसूत्रवृत्तौ ब्रह्मतत्त्वप्रकाशिकायां कार्याख्यानाधिकरणम् ९

पूर्व सन्दिग्धसदुपक्रमस्य वाक्यशेषान्निणयवदाचामन्तीति वर्तमानापदेशस्य विधित्वसन्देहे आचामेदिति वाक्यशेषाद् विधित्वनिर्णय इति दृष्टान्तसङ्गत्येदमाह- कार्याख्यानादपूर्वम् ॥ १८ ॥ अत्र पूर्वपक्षे प्राणविद्याङ्गत्वेनापूर्वस्याचमनस्य विधेयत्वात् तस्यान्यत्र प्रा- णविद्यायामुपसंहारः, सिद्धान्ते त्वनुपसंहार इति फलभेदः । बृहदारण्यकच्छान्दो - ग्ययोरुभयत्र ‘तद्विद्वांसः श्रोत्रिया अशिष्यन्त आचामन्त्याशत्वाचामन्त्येतमेव तदन- मननं कुर्वन्तो मन्यन्ते' (बृ. ६-१-१४) ' एवं विदशिष्यन्नाचामेदशित्वाचाचामेदे- तमेव तदनमनग्नं कुरुते’ ' तस्माद्वा एतदशिष्यन्तः पुरस्ताच्चोपरिष्टाच्चाद्भिः परिद- धति’ (छा. ५-२-२) इति श्रूयते । तत्राचमनमनग्नताचिन्तनं च प्रतीयते । तत्रोभयविधाने बाक्यभेदभयादेकमेव विधेयम् । तदेकं किमाचमनमुतानग्नताचि- न्तनमिति विशये आचमनमिति पूर्वः पक्षः । सिद्धान्तस्तु अनमताचिन्तन मेवापूर्व प्राणविद्याङ्गत्वेन विधेयं, नाचमनम् । कुतः, कार्याख्यानाद् 'द्विजो नित्यमुपस्पृशे दित्यादिना स्मार्तविधिना सकलानुष्ठानाङ्गत्वेन शुद्ध्यर्थं कार्यस्याचमनस्य प्राणवि - द्यायामपि विधिप्राप्तस्याख्यानादनमताविधानार्थमनुवादादित्यर्थः ॥ १८ ॥

१० समानाधिकरणम् * पूर्वत्र प्राप्ताचमनानुवादेनानग्नताचिन्तनं विधेयमित्युक्तम् । इह त्वेकशा- खायां विप्रकृष्टदेशस्थवाक्ययोरेकस्यानुवादकत्वमन्यस्य विधायकत्वमित्यानिश्चयादु - भयोरपि स्वनिकटस्थगुणविशिष्टविद्याविधायकत्वमिति प्रत्युदाहरणसङ्गत्येदमाह- Sumeraguay समान एवब्याभेदात् ॥ १९ ॥ - अत्र पूर्वपक्षे विद्ययोर्भेदाद् गुणानुपसंहारः, सिद्धान्ते गुणोपसंहार इति फलभेदः । वाजसनेयशाखायामनिरहस्ये शाण्डिल्यविद्या श्रूयते - 'स आत्मानमुपा- सीत मनोमयं प्राणशरीरं भारूपम्' इत्यादिना । तत्रैव बृहदारण्यके (५-६-१) पुनः सैव श्रूयते- 'मनोमयोऽयं पुरुषो भास्सत्य' इति । तत्र किमग्मिरहस्यवृहदा- रण्यकस्थयोर्विद्ययोर्भेद उतैक्यमिति विशये अनयोर्विद्ययोर्भेद इति पूर्वः पक्षः । सिद्धान्तस्तु यथा भिन्नासु शाखासु विद्यैक्यं गुणोपसंहारश्च भवति, एवं समाने च समानायामपि शाखायां भवितुं युक्तम् । कुतः, अभेदाद उपास्यस्य मनोमयत्वा- दिगुणकस्योभयत्राप्यभेदेन प्रत्यभिज्ञानात् । एवं चाग्निरहस्ये विद्यां विधाय बृहदा-