पृष्ठम्:ब्रह्मतत्त्वप्रकाशिका नाम ब्रह्मसूत्रवृत्तिः.djvu/१३२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

ब्रह्मसूत्रवृत्तौ ब्रह्मतत्त्वप्रकाशिकायां त्वब्रह्मस्वरूपस्यानुपसंहार्यस्यार्थादिपरत्वरूपधर्मस्य ११८ अधुना यत इत्येकफलत्वसङ्गत्येदमाह- ब्रह्मज्ञानोपायत्वमभिधी- आध्यानाय प्रयोजनाभावात् ॥ १४ ॥ तत्र पूर्वपक्षे वाक्यभेदाद्विद्याभेदः, सिद्धान्ते वाक्यैक्याद्विद्यैक्यमिति फल- भेदः । कठवल्लीषु (३-१०) पठ्यते- 'इन्द्रियेभ्यः परा ह्यर्था' इत्यारभ्य 'पुरु षान्न परं किञ्चित् सा काष्ठा सा परा गतिः' (क. ३-११) इति । तत्र किमिमानि वाक्यानि भिन्नान्युतात्मपरमेकमेव वाक्यमिति सन्देहे प्रतिपाद्यभेदाद् भिन्नानीति पूर्वः पक्षः । सिद्धान्तस्तु आध्यानाय आध्यानसाध्यसाक्षात्काराय पुरुष एवार्थादिभ्यः सर्वेभ्यः परत्वेन प्रतिपाद्य इत्येकमेव वाक्यम् | न त्विन्द्रियपरत्वेनार्थादयः प्रति- पाद्याः प्रयोजनाभावात् । नहीन्द्रियपरत्वेनार्थज्ञानं स्वतः किञ्चित् प्रयोजनं जन- यति । अतः प्रतिपाद्यभेदाभावान्न वाक्यभेदः ॥ १४ ॥ इत्थं वाक्यस्यात्ममात्रपरत्वे फलवत्त्वं लिङ्गमभिधायापूर्वत्वमपि लिङ्गमाह- आत्मशब्दाच ॥ १५ ॥ 'एष सर्वेषु भूतेषु गूढोत्मा न प्रकाशते' (क. ३-१२) इति प्रकृतपुरुषे आत्मशब्दश्रवणाच्चात्मपरमेवेदं वाक्यं तस्यात्मनः श्रुत्या मानान्तरावेद्यत्वरूपापू- र्वत्वप्रतिपादनादिति भावः ॥ १५ ॥ ,

  • ८ आत्मगृहीत्यधिकरणम्

पूर्व वाक्यभेदमियार्थादीनां पृथक्प्रतिपाद्यत्वं नास्तीत्य भिहितम् । तद्वत् 'प्रजापते रेतो देवा' इति पूर्ववाक्ये हिरण्यगर्भस्य प्रकृतत्वाद्वाक्यभेदमिया स ए- वात्मशब्देनाभिधीयत इति दृष्टान्तसङ्गत्येदमाह- आत्मगृहीतिरितरवदुत्तरात् ॥ १६ ॥ 1 - अत्र पूर्वपक्षे आत्मपदस्य परमात्मपरत्वाभावात् तत्प्रमित्यर्थं नानन्दादि- धर्माणामत्रोपसंहारः, सिद्धान्ते परमात्मन एवात्रोक्तत्वात् तत्प्रमित्यर्थं तदुपसंहार इति फलभेदः । ऐतरेयके (१-१) श्रूयते - 'आत्मा वा इदमेक एवाग्र आसीत् । नान्यत् किञ्चन मिषदि' त्यादि । तत्र किमात्मशब्देन हिरण्यगर्भ उच्यत उत परमात्मेति सन्देहे हिरण्यगर्भ इति पूर्वः पक्षः । सिद्धान्तस्तु अस्मिन् सृष्टिवाक्ये १. 'ज्ञान' ख पुस्तके पाठः, २. 'र्थानां' कपुस्तके पाठः.