सामग्री पर जाएँ

पृष्ठम्:ब्रह्मतत्त्वप्रकाशिका नाम ब्रह्मसूत्रवृत्तिः.djvu/१२९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

तृतीयाध्याये तृतीयः पादः । अन्यथात्वं च शब्दादिति चेन्नाविशेषात् ॥६ ॥ अत्र पूर्वपक्षे मिथो गुणोपसंहारः, सिद्धान्ते विद्यैक्यापवादानुपसंहार इति फलभेदः । वाजसनेयके पठ्यते 'अथ हेममासन्यं प्राणमूचुस्त्वं न उद्गायेति त- थति तेभ्य एष प्राण उदगायत्' (बृ. १-३-७) इति । तथा छान्दोग्येऽपि 'अथ ह य एवायं मुख्यः प्राणस्तमुद्गीथमुपासांचक्रिरे' (छा. १-२-७) इति मुख्यप्राणप- रिग्रहः कृत इत्युभयत्रापि प्राणविद्याविधिरवसीयत इति । किमत्र विद्यैक्यम् आ होस्विद्विद्याभेद इति संशये विद्यैक्यमिति पूर्वः पक्षः । नन्वन्यथात्वं न विद्यैक्यं भवितुमर्हात, कुतः, ‘त्वं न उद्गाय' (बृ. १-३-७) इत्युद्गीथकर्तृकत्वेनैकत्रान्यत्र ‘तमुद्गीथमुपासांचक्रिरे’ (छा. १-२-७) इत्युद्गीथत्वेन प्राणस्योपास्यत्वप्रतिपादका- च्छब्दादितिचेद्, नैतावता विद्याभेदः, कुतः, देवासुरसङ्ग्रामोपक्रमासुरात्ययाभि- प्रायप्रभृतीनामुभयत्राविशेषात् । अतो विद्यैक्यमिति सिद्धम् ॥ ६ ॥ एवं पूर्वपक्षे राद्धान्तः - न वा प्रकरणभेदात् परोवरीयस्त्वादिवत् ॥ ७ ॥ नैव विद्यैक्यं युक्तं, कुतः, प्रकरणभेदाद एकत्र 'ओमित्येतदक्षरमुद्गीथमु- पासीत' (छा. १-१-१) इत्युद्गीथावयव ओङ्कारे प्राणदृष्टिरुपदिश्यते अन्यत्र तु ‘त्वं न उद्गाय’ (बृ. १-३-२) इति सकलैव सामभक्तिः प्राणत्वेनावेद्यत इत्युपक्र- मभेदात् । तत्र दृष्टान्तः– परोवरीयस्त्वादिवद् | यथा परमात्मदृष्ट्यध्याससाम्येऽपि 'एष परोवरीयानुद्गीथः' (छा. १-९-२) इति परोवरीयस्त्वादिविशिष्टमुद्गीथोपास- नमक्ष्यादित्यादिगतहिरण्यश्मश्रुत्वादिविशिष्टोद्गीथोपासनाद् भिन्नं, तद्वत् ॥ ७ ॥ - संज्ञात चेत् तदुक्तमस्ति तु तदपि ॥ ८ ॥ ननूद्गीथविद्येत्युभयत्र संज्ञातः संज्ञाया एकत्वाद्विद्यैक्यमिति चेत्, तदुक्तं 'न वा प्रकरणभेदाद्' (ब्र. सू. ३-३-७) इति सूत्रे । अस्ति तु तत् संज्ञैकत्वं प्रसिद्धभेदानामप्यग्निहोत्रप्रभृतीनां काठकैकग्रन्थपठितानां काठकसंज्ञैकत्वम् ॥ ८॥ ४ व्यायधिकरणम् पूर्वम् 'ओमित्येतदक्षरमुद्गीथम्' (छा. १-१-१) इत्यत्रोङ्कारोगीथयोर्विशे- षणविशेष्यभावं सिद्धवत्कृत्य प्रक्रमभेदाङ् विद्याभेदः सिद्धान्तितः । स न युज्यत

  • मुद्रितब्रह्मसूत्रपुस्तकेषु चशब्दो न पठ्यते.

१. 'क्याभावात्रोपसंहारः' ख पुस्तके पाठः.. २. 'युक्त इ' ख पुस्तके पाठः