पृष्ठम्:ब्रह्मतत्त्वप्रकाशिका नाम ब्रह्मसूत्रवृत्तिः.djvu/१२५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

तृतीयाध्याये द्वितीयः पादः । १११ ‘आकाशवत् सर्वगतश्च नित्यः' इत्यादिशब्दः । आदिशब्देन ‘नित्यः सर्वगतः स्थाणुः (गी. २-२४) इत्यादिरुक्तः । तस्मादद्वितीयस्य ब्रह्मण आविद्यकं सर्वमा- दाय श्रुतिस्मृतिभ्यां सर्वगतत्वं सिद्धम् ॥ ३७ ॥

  • ८ फलाधिकरणम् *

ननु ब्रह्मातिरिक्तस्य वस्तुनो निषेधे ब्रह्मणो निर्विशेषत्वेन फलदातृत्वं न स्यादित्याक्षेपसङ्गत्येदमाह- फलमत उपपत्तेः ॥ ३८ ॥ अत्र पूर्वपक्षे फलदातुरीश्वरस्य तत्पदवाच्यस्यासिद्धेर्लक्ष्यासिद्धिः, सिद्धान्ते तत्सिद्धिरिति फलभेदः । अत्र किं सर्वस्य जन्तोः कर्मण एव फलं भवति उते- श्वरादिति सन्देहे कर्मण इति पूर्व: पक्षः । सिद्धान्तस्तु अतोऽस्मात् परमेश्वरात् फलं सर्वस्य जन्तोर्भवितुमर्हति क्षणिकांत् कर्मणः फलासम्भवेनेश्वरस्यैव फलदातृ- त्वोपपत्तेरित्यर्थः ॥ ३८ ॥ श्रुतत्वाच ॥ ३९ ॥ 'स वा एष महानज आत्मान्नादो वसुदानः' (बृ. ४-४-२४) इतीश्वरे फ लहेतुत्वस्य श्रुतत्वाच्चेश्वरः फलदातेत्यर्थः ॥ ३९॥ शङ्कते- धर्म जैमिनिरत एव ॥ ४० ॥ यतः श्रुत्युपपत्तिभ्यामीश्वरं फलदातारं मन्यते सिद्धान्ती, अत एव श्रुत्यु - पपत्तिभ्यां धर्मे फलदातारं जैमिनिराचार्यो मन्यते । तथा हि 'स्वर्गकामो यजेते'- ति विधिविषयस्य यागस्य स्वर्गसाधनत्वं श्रुतम् | तन्निर्वाहाय श्रुतिप्रामाण्यादपूर्वा - ख्यो व्यापारो यागस्योत्तरावस्थारूपः कल्पनीय इति यागादिधर्म एव फलदाता, ईश्वरस्य सर्वसाधारणस्य विचित्रफलदातृत्वानुपपत्तेरिति ॥ ४० ॥ समाधत्ते-- पूर्व तु बादरायणो हेतुव्यपदेशात् ॥ ४१ ॥ तुरुक्तशङ्कानिरासार्थः । पूर्व पूर्वोत्तमश्वरं फलदातारं बादरायणस्त्वाचार्यो मन्यते । कर्मापूर्व वा स्वस्वरूपस्वविनियोगसाक्षात्कारवदधिष्ठितं भवितुमर्हति अ- चेतनत्वान्मृदादिवदित्यनुमानेन सम्भावितेऽर्थे श्रुतिस्मृती प्रमाणयति – हेतुव्य- १. 'कत्वात् कपुस्तके पाठः Pe