पृष्ठम्:ब्रह्मतत्त्वप्रकाशिका नाम ब्रह्मसूत्रवृत्तिः.djvu/१०५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

तृतीयाध्याये प्रथमः पादः । ९१ मनसी गृह्येते । तदाह श्रुतिः 'अन्नमशितं त्रेधा विधीयते । तस्य यः स्थविष्ठो धातुस्तत् पुरीषं भवति, यो मध्यमस्तन्मांसं, योऽणिष्ठस्तन्मनः' (छा. ६-५- १ ) इति । एवमितरयोरप्तेजसोर्यथाशब्दं कार्यमवगन्तव्यं, 'मूत्रं लोहितं प्राणश्चापां कार्यमस्थि मज्जा वाक् तेजस' इति ॥ २१ ॥ ननु सर्वेषां त्रिवृत्करणाविशेषाद् 'इयं पृथिवी इमा आप इदं तेज' इत्यसा- धारणः पृथग्व्यवहारः कथं सङ्गच्छते, कथं वाध्यात्मिक व्यवहारः 'इदं मांसादि पृथिवीकार्यम् इदं जलस्य इंदं च तेजस' इति । तत्राह - वैशेष्यात्तु तद्वादस्तद्वादः ॥ २२ ॥ तुशब्दः शङ्कानिरासार्थः । सर्वेषां पृथिव्यादीनां त्रिवृत्करणाविशेषेऽपि वैशेष्यात् स्वभागाधिक्यात् तद्वादः पृथिव्यादिवाढः सङ्गच्छते । तद्वाद इति पदा- भ्यासोऽध्यायपरिसमाप्त्यर्थः । तदेवं सर्वासां श्रुतीनामविरोधे प्रामाण्यान्निरवद्या- द्वितीये ब्रह्मणि सिद्धः समन्वय इत्यतिशोभनम् ॥ २२ ॥ मिथस्त्रय्यन्तवाक्यानामविरोधे प्रमात्वतः । सिद्धः समन्वयो यस्मिंस्तदस्मि ब्रह्म चिद्धनम् || अस्मिन् पादे नवाधिकरणानि, सूत्राणि द्वाविंशतिः । अस्मिन् अविरोधाध्याये सप्तचत्वारिंशदधिकरणानि सूत्राणि सप्तपञ्चाशदुत्तरशतम् । इति श्रीमत्परमहंसपरिव्राजकाचार्यश्रीपरमशिवेन्द्रसरस्वतीपादाब्ज- सेवापरायणेन श्रीसदाशिवेन्द्रसरस्वत्या विरचितायां ब्रह्मसूत्रवृत्तौ ब्रह्मतत्त्वप्रकाशिकायां द्वितीयाध्यायस्य चतुर्थः पादः । समाप्तश्चाविरोधाध्यायः । अथ तृतीयोऽध्यायः ।

  • १ तदन्तरप्रतिपत्त्याधेकरणम्

पूर्वस्मिन्नध्याये ब्रह्माण समन्वयस्य स्मृतिन्यायश्रुतिविरोधव्यासधेनानध्यव- सायलक्षणाप्रामाण्य प्रतिक्षेपे तार्तीयीको विचारो भवतीति हेतुहेतुमद्भावसङ्गत्यायम- १. 'धनिरासेन' खपुस्तके पाठः