पृष्ठम्:बृहद्देवता.djvu/६४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

33] —BRHADDEVATĀ iii. 111 वसिष्वा हीति चामेये ऋगनेर्मध्यमस्य तु | जराबोधेति विज्ञेया वैश्वदेव्युत्तमा नमः ॥९९ ॥ पराश्चतस्रो यत्रेति इन्द्रोलूखलयो स्तुतिः । मन्येते यास्ककात्यक्याव् इन्द्रस्येति तु भागुरिः ॥ १०० ॥ यञ्चिड्युलूखलस्य हे वे परे मुसलस्य तु । चर्माधिषवणीयं वा सोमं वान्या प्रशंसति ॥ १०१ ॥ ऐन्द्रं यञ्चिद्धि सत्येति उत्तरं चाश्विनातृचात् । आश्विनादुत्तर: कस्त उषस्यस्तृच उत्तमः ॥१०२ ॥ स्तूयमानः शश्वदिति प्रीतस्तु मनसा ददौ । शुनःशेपाय दिव्यं तु रथं सर्वं हिरण्मयम् ॥ १०३ ॥ आग्नेयं यत्त्वमैन्द्रे च चिश्चिदित्याश्विनं ततः । तेऽर्थवादं कर्मेद् इन्द्रस्येति तु शंसति ॥१०४ ॥ पादोऽग्रये हयामीति मैत्रावरुण उत्तरः | तृतीयो रात्रिसंस्तावः सूक्तं सावित्रमुच्यते ॥१०५ ॥ पञ्चैतानि जगौ दृष्ट्वा सूक्तान्याङ्गिरसो मुनिः । हिरण्यस्तूपतां प्राप्य सख्यं चेन्द्रेण शाश्वतम् ॥१०६॥ आग्नेयं प्रेति मरुतां * क्रीळं चीणि पराण्यतः । उत्तिष्ठ ब्राह्मणस्पत्यं यं रक्षन्ति त्रयस्तृचाः ॥ १०७॥ वरुणार्यममित्राणां मध्य आदित्यदैवतः । [-RV. i. 45 पौष्णं सं पूषन्षड्रौद्य तृतीया न तु केवला ॥१०४॥ मित्रेण वरुणेनाच विश्वैर्देवैश्व संस्तवः | Bउक्तमनर्षिणा पूर्वम् आदेशाद्दैवतं विना ॥ १०९ ॥ Bज्ञातुं न शक्यते लिङ्गात् तथापि क्वचिदुच्यते । Bआदित्या वसवो रुद्रास् त्वमग्न इति संस्तुताः ॥ ११० ॥ B तिस्रः सौम्योऽम्र आग्रेये प्रगाथेनाश्विनौ स्तुतौ । F २० ॥ २१॥