—BRHADDEVATĀ iii. 86 मरुद्भिर्मध्यमस्थानैर् अयमग्निस्तु पार्थिवः ॥७४॥ नवकेनेह सूक्तेन प्रति त्यमिति संस्तुतः । मरुतां साहचर्यात्तु सूक्तेऽस्मिवाग्निमास्ते ॥७५॥ मन्यते मध्यमं चैव यास्कोऽग्निं न तु पार्थिवम् । स्यादयं पार्थिवस्त्वेव तथा रूपं हि दृश्यते ॥७६ ॥ हूयसे पीतये चेति वैद्युते न तदस्ति हि । अथ स्यादभिधानस्य देवतायाः पृथक् पृथक् ॥७७ ॥ ऋचोऽर्धर्चस्य पादस्य कथं ज्ञायेत दैवतम् । यथा निविदि सावित्र्यां स्तूयते कर्म कर्मणा ॥७८ ॥ दोग्ध्री धेनुर्वोढानड्वान् आशुः सप्तिः पुरंधिया | यथा च शंनोमिचीया वरुणः प्राविता भुवत् ॥१९॥ सूक्तप्रायेणैभिरग्ने परीक्ष्यास्तत्र देवताः । शब्दानां हैपदादीनां डिदैवबहुदैवतम् ॥ ॥ असंस्तुतं संस्तुतवत् प्रदिष्टं दैवतं क्वचित् । यत्र विदैवते मन्त्र एकवद्देवतोच्यते ॥१॥ विभक्तस्तुति तडिद्याद् बहुष्वबहुवच्च यत् । आशीर्वादेषु संज्ञासु कर्मसंस्थासु देवताः । बह्यो ह बहुवत्तत्र द्विपदे यत्र संस्तुते ॥ २ ॥ सुधन्वन आङ्गिरसस्यासन्पुत्रास्त्रयः पुरा । ऋभुर्विभ्वा च वाजश्व शिष्यास्त्वष्टुश्च तेऽभवन् ॥ ३ ॥ शिक्षयामास तांस्त्वष्टा त्वाष्टुं यत्कर्म किंचन । परिनिष्ठितकर्मणो विश्वे देवा उपाहूयन् ॥ ४ ॥ विश्वेषां ते ततश्चक्रुर वाहनान्यायुधानि तु । Bधेनुं सबर्दुघां चक्रुर् अमृतं सबरुच्यते ॥ ५ ॥ Bबृहस्पतेरथाश्विभ्यां रथं दिव्यं चिवन्धुरम् । 31] [-RV. i. 20 १५॥ १६॥
पृष्ठम्:बृहद्देवता.djvu/६२
दिखावट