RV. i. 13-] BRHADDEVATĀ iii. 12- तिसस्तु देव्यो याः प्रोक्तास् त्रिस्थानैवेह सा तु वाक् । त्रिविधेनोच्यते नामा ज्योतिःषु त्रिषु वर्तिनी ॥ १२॥ अग्निमेवानुगेळा तु मध्यं प्राप्ता सरस्वती । अमुं स्थिताधि लोकं तु भारती भवति ह्यसौ ॥ १३ ॥ सैषा तु त्रिविधा वाग्वै दिवि च ष्योनि चेह च । व्यस्ता चैव समस्ता च भजत्यग्नीनिमानपि ॥१४॥ त्वष्टा तु यस्त्वयमेव पार्थिवोऽनिरिति स्तुतिः । पार्थिवस्यास्य वर्चः स्युः कस्याप्यृक् चार्तवेषु च ॥ १५॥ विषितस्त्वक्षतेवा स्यात् तूर्णमश्नुत एव वा । कर्मसूतारणो वेति तेन नामैतदनुते ॥ १६ ॥ यः सहस्रतमो रश्मी रवेश्चन्द्रमुपाश्रितः । सोऽपि त्वष्टारमेवाग्निं परं चेह च यन्मधु ॥१७॥ प्रादाद्दूह्यापि सुप्रीतः सुताय तदथर्वणः । स चाभवदृषिस्तेन ब्रह्मणा दीप्तिमत्तरः ॥ १४ ॥ तमृषिं निषिषेधेन्द्रो मैवं वोचः क्वचिन्मधु | न हि प्रोक्ते मधुन्यस्मिञ् जीवन्तं त्वोत्सृजाम्यहम् ॥१९॥ तमृषिं त्वश्विनौ देवौ विविक्ते मध्वयाचताम् । सच ताभ्यां तदाचष्टे यदुवाच शचीपतिः ॥ २० ॥ तमब्रूतां तु नासत्याव् आश्व्येन शिरसा भवान् । मध्वाशु याहयत्वावां मेन्द्रश्च त्वा वधीत्ततः ॥२१॥ आश्व्येन शिरसा तौ तु ध्यङाह यदश्विनौ । तदस्येन्द्रोऽहरत्स्वं तन् * न्यधतामस्य यच्छिरः ॥ २२ ॥ दधीचश्च शिरश्चाश्व्यं कृतं वज्रेण वजिणा । पपात सरसो मध्ये पर्वते शर्यणावति ॥ २३॥ तदयस्तु समुत्याय भूतेभ्यो विविधान्वरान् ।
[26 ३॥ ४॥