9] —BRHADDEVATĀ i. 110 तस्य तस्येह देवत्वं दृश्यन्ते च पृथक् स्तुताः ॥९॥ यत्त्वाग्नेयमिति ब्रूमः सूक्तभाक् तत्र पार्थिवः । जातवेदस्यमित्युक्ते सूक्तेऽस्मिन्मध्यमः स्मृतः ॥९९॥ वैश्वानरीयमिति तु यत्र ब्रूमोऽथ वा क्वचित् । सूर्यः सूक्तस्य भाक् तत्र ज्ञेयो वैश्वानरस्तुतौ ॥ १०० ॥ सूर्यप्रसूतावग्री तु दृष्टौ पार्थिवमध्यमौ । एतेषामेव लोकानां त्रयाणामध्वरेऽध्वरे ॥१०१॥ रोहात्मत्यवरोहेण चिकीर्षन्नाग्निमारुतम् । शस्त्रं वैश्वानरीयेण सूक्तेन प्रतिपद्यते ॥१०२ ॥ ततस्तु मध्यमस्थाना देवतास्त्वनुशंसति । रुद्रं च मरुतश्चैव स्तोचिये ऽग्निमिमं पुनः ॥ १०३ ॥ यथैतदुक्तमेतेषां विभूतिस्थानसंभवम् । तथा च देवदेवस्य तत्र तत्रेह दृश्यते ॥ १०४ ॥ यद्यत्र पृथिवीस्थानं पार्थिवं चाग्निमाश्रितम् । तत्सर्वमानुपूर्व्येण कथ्यमानं निबोधत ॥१०५ ॥ जातवेदाः श्रितो ह्यग्निम् अग्निं वैश्वानरः श्रितः । द्रविणोदास्तथेध्मश्च श्रितश्चाग्निं तनूनपात् ॥१०६॥ नराशंसः श्रितश्चैनम् एनमेवाचितस्विळः । बर्हिवारश्च देव्योऽग्निम् एनमेव तु संश्रिताः ॥ १०७ ॥ नक्तोषासा च दैव्यौ च होतारावेतदाश्रयौ । देव्यस्तिस्रः श्रिताश्चैनं त्वष्टा चैवैतदाश्रयः ॥ १० ॥ श्रितो वनस्पतिश्चैनं स्वाहाकृतय एव च । अश्वश्च शकुनिश्चैव मराडू का चैतदाश्रयाः ॥१०९ ॥ यावाणश्चैनमक्षाश्च नराशंसस्तथा रथः । दुन्दुभिश्चेषुधिश्चैनं हस्तघ्नोऽभीशवो धनुः ॥११०॥ C [Introduction २०॥ २१॥ २२॥
पृष्ठम्:बृहद्देवता.djvu/४०
दिखावट