RV. x. 177 – ] BRHADDEVATĀ viii. 74– यत्त्वतः परमानेयं तत्रार्भव्यक् प्र सूनवः ॥७४॥ ऋषिर्जगौ पतंगस्तु पतंगमिति यत्परम् । तत्सौर्यमेके मन्यन्ते मायाभेदं तथापरे ॥ ७५ ॥ Bमायाभेदे द्वितीयायां वाक् स्तुतेत्याह शौनकः । Bदेवी बिभर्ति मनसा या वाचं विदितां सतीम् ॥७६ ॥ त्यमू षु तार्क्ष्यदेवत्यं सूक्तं स्वस्त्ययनं विदुः । उदैन्द्रे वैश्वदेवं तु प्रथश्चेति च यत्परम् ॥७७॥ आत्मप्रभावमाचख्युस् तत्राद्या ऋषयस्त्रयः । रथंतरं यथा स्तोत्रं स्तोत्रं चैव यथा बृहत् ॥७८॥ यथा च संभूतो घर्मः सवितुश्चोपलक्ष्यते । बृहस्पतिरिति त्वस्मिन् स्तुतः सूक्ते बृहस्पतिः ॥ ७९ ॥ आशिषो यजमानस्य केचिदेतां स्तुतिं विदुः | प्राजापत्यस्य यत्सूक्तम् अपश्यं त्वा प्रजावतः ॥४०॥ प्रत्यूचं देवता स्तौति लिङ्गैरेवाच लक्षिताः । आशिष: पुचकामस्य प्रथमा हि वत्यथ ॥४१॥ हितीया पुत्रकामायास् तृतीयात्मस्तवं त्वृषेः | यद्धिष्णुरिति सूक्तं तु वैश्वदेवं प्रचक्षते ॥ २ ॥ तस्मिन्स्वदारगभीर्थम् ऋषिराशास्त आशिषः | परं तु नेजमेषेति गर्भार्थं वा तदुच्यते ॥ ३ ॥ अस्यै मे पुत्रकामायै गर्भमा धेहि यः पुमान् । आशिषो योगमेतं हि सर्वर्धन मन्यते ॥ ४ ॥ एकारमनुकम्पार्थे नाबि स्मरति माठरः | आख्याते भूतकरणं बाष्कला आव्ययोरिति ॥ ५ ॥ माहित्रं यन्महि चीणाम् आदित्यानां स्तुतिं विदुः । वरुणार्यममित्राणाम् आदित्येष्वितरेषु तु ॥ ६ ॥
[98 १६॥
- १७ ॥