सामग्री पर जाएँ

पृष्ठम्:बृहद्देवता.djvu/१०६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

--BRHADDEVATĀ vi. 134 [ - RV ix. 83 75] उद्यतस्यैव वजस्य द्यौर्ददातु ममान्तरम् । तथेति विष्णुस्तञ्चक्रे द्यौश्चास्य विवरं ददौ ॥ १२३ ॥ तदेतदखिलं प्रोक्तं सखे विष्णविति वृचि | मैत्रावरुण्यः सूक्ताद्याश् चतस्रस्त्वृधगित्यृचः ॥ १२४ ॥ प्रेति मित्राय पादाश्च अर्यम्णो वरुणस्य च । जयश्चतुर्थः सर्वेषाम् आदित्यानामिति स्तुतिः ॥१२५॥ परा त्वादित्यदेवत्या आ म इत्याश्विनो हृचः । वायव्ये सौर्ये उषस्या प्रभां वा चन्द्रसूर्ययोः ॥१२६॥ पावमानी प्रजा हेति मातेत्युग्भ्यां तु गौ स्तुता । त्वमने बृहदाग्रेये परेऽग्निस्त्वृचि संस्तुतः ॥ १२७ ॥ मरुद्भिः सह रुद्रेश्य आने याहीति मध्यमः । Bप्रजा हेत्यपि वार्धर्चे प्रथमेऽग्निरिहोच्यते ॥ १२ ॥ Bपादे तृतीय आदित्यस् तुरीये मध्यम स्तुतः । Bरहस्ये ब्राह्मणेऽप्येवं व्याख्यतं ह्यैतरेयके ॥ १२९ ॥

Rv. ix. पवमान स्तुतः सोमो नवमे विह मण्डले । पवमानवदाम्यस्तु समिड इति संस्तुताः ॥ १३० ॥ अन आयूंषीति चासु तिसृष्वग्निर्निपातभाक् । अविता न इति त्वस्मिंस् तृचे पूष्णा सह स्तुतः ॥१३१॥ आग्रेय्यौ हे ऋचावत्र यत्त इत्युत्तरे ततः । उभाभ्यामिति सावित्री आग्निसावित्र्यृगुत्तरा ॥ १३२ ॥ पुनन्तु मां वैश्वदेवी आग्नेयी वृगुप प्रियम् । उत्तरे च य इत्येते स्वाध्यायाध्येतृसंस्तवः ॥१३३ ॥ सूक्ते निरुक्ते सक्केऽग्नी रक्षोहा घर्मसंस्तवः | सूर्यवच्चात्मवचापि पवित्रमिति चोच्यते ॥१३४ ॥ २५॥ २६॥ २७॥