पृष्ठम्:बृहत्स्तोत्ररत्नाकरः (प्रथमः भागः).pdf/५१५

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

श्रीजगद्गुरुस्तुति जगद्गुरु वृत्ताष्टकम् ५०७

यस्मैप्रदत्ता गुरुणा स्वकृततपोविभूतयस्सोर्च्यः श्रीसच्चिदानन्द ... ॥ ४ यस्मदभीष्टार्थचयाप्तिरिह भवत्यमोघमार्तानां यस्मात्कटाक्षास्सदया: कुशलकरास्सरन्ति भक्तेषु । यस्मात्सदानन्ददसूक्तयमृतधुनी प्रजायते सोर्च्यः श्रीसच्चिदानन्द ... ॥ ५ यस्याङ्गके भातिमहत्त्वगुणविबोधकं महातेज: यस्योक्तिपूरे ऋतपूतहित सदम्बुभक्तपानीयम् । यस्यान्तरङ्गे हि शिवोहमिति विभावनैकता सोर्च्यः श्रीसच्चिदानन्द ... ॥ ६ यस्मिन् स्थिताशृङ्गगिरीड्ययति परम्परात्तदिव्यश्री: यस्मिन् चकास्त्युद्धृतवादि जयकरी यश:करी विद्या । यस्मिन् सुविज्ञानविरक्ति शमदमादिसम्पदस्सोर्च्यः श्रीसच्चिदानन्द ... ॥ ७