पृष्ठम्:बृहत्स्तोत्ररत्नाकरः (प्रथमः भागः).pdf/३६१

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्

॥ शङ्कराष्टकम् ॥

शीर्षजटागणभारं गरलाहारं समस्तसंहारम् ।
कैलासाद्रिविहारं पारं भववारिधेरहं वन्दे ॥ १
चन्द्रकलोज्ज्वलफालं कण्ठव्यालं जगत्त्रर्याफालम् ।
कृतनरमस्तकमालं कालं कालस्य कोमलं वन्दे ॥ २
कोपेक्षणहतकामं स्वात्मारामं नगेन्द्रजावामम् ।
संसृतिशोकविरामं श्यामं कण्ठेन कारणं वन्दे ॥ ३
कटितटविलसितनागं खण्डितयागं महाद्भुतत्यागम् ।
विगतविषयरसरागं भागं यज्ञेषु बिभ्रतं वन्दे ॥ ४
त्रिपुरादिकदनुजांतं गिरिजाकान्तं सदैव संशान्तम्
लीलाविजितकृतान्तं भान्तं स्वान्तेषु देहिनां वन्दे ।
सुरसरिदाप्लुतकेशं त्रिदशकुलेशं दालयावेशम् ।
विगताशेषक्लेशं देशं सर्वेष्टसम्पदां वन्दे ॥ ६
करतलकलिवपिनाकं विगतजराकं सुकर्मणां पाकम् ।
परपदवीतवराकं नाकङ्गमपूगवन्दितं वन्दे ।।७