पृष्ठम्:बृहत्स्तोत्ररत्नाकरः (प्रथमः भागः).pdf/३२६

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
३१८
बृहत्स्तोत्ररत्नाकरे - प्रथमभाग:


आद्याविद्या हृद्गता निर्गतासी-
द्विद्या दृद्या हृद्गता त्वत्प्रसादात् ।
सेवे नित्यं श्रीकरं त्वत्पदाब्जं
भावे मुक्तेर्भाजनं राजमौले ॥ ९१
दूरीकृतानि दुरितानि दुरक्षराणि
दौर्भाग्यदुःखदुरहङ्कृतिदुर्वचांसि ।
सारं त्वदीयचरितं नितरां पिबन्तं
गौरीश मामिह समुद्धर सत्कटाक्षैः ॥ ९२
सोमकलाधरमौलौ
कोमलधनकन्धरे महामहसि
स्वामिनि गिरिजानाथे
मामकहृदयं निरन्तरं रमताम् ।।९३
सा रसना ते नयने तावेव करौ स एव कृतकृत्यः
या ये यौ योभर्गं वदतीक्षते सदार्चत: स्मरति ।।
अतिमृदुलौ मम चरणा-
वतिकठिनं ते मनो भवानीश ।