पृष्ठम्:बृहत्स्तोत्ररत्नाकरः (प्रथमः भागः).pdf/३१६

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
३०८
बृहत्स्तोत्ररत्नाकरे - प्रथमभाग:


सत्पक्षः सुमनोवनेषु स पुनः साळान्मदीये मनो-
राजीवे भ्रमराधिपो विहरतां श्रीशैलवासी विभुः॥
कारुण्यामृतवर्षिणं घनविपद्ग्रीष्मच्छिदाकर्मठं
विद्यासस्यफलोदयाय सुमनः संसेव्यमिच्छाकृतिम् ।
नृत्यद्भक्तमयूरमद्रिनिलयं चञ्चज्जटामण्डलं
शम्भो वाञ्छति नीलकन्धर सदा त्वां मे मनश्चातकः॥
आकाशेन शिखी समस्तफणिनां नेत्रा कलापी नता-
नुपाहिप्रणवोपदेशनिनदैः केकीति यो गीयते ।
श्यामां शैलसमुद्भवां धनरुचिं दृष्ट्वा नटन्तं मुदा
वेदान्तोपवने विहाररसिके तं नीलकण्ठं भजे ॥ ५३
सन्ध्याधर्मदिनात्ययो हरिकराघातप्रभूतानक-
ध्वानो वारिदगर्जितं दिविषदां दृष्टिच्छटा चञ्चला।
भक्तानां परितोषबाष्पविततिर्वृष्टिर्मयूरी शिवा
यस्मिन्नुज्ज्वलताण्डवं विजयते तं नीलमण्ठं भजे ॥
आद्यायामिततेजसे श्रुतिपदैर्वेद्याय साध्याय ते
विद्यानन्दमयात्मने विजगतः संरक्षणोद्योगिने